________________
२०६ न्यायविनिश्चयविवरणे
[२।१७३ प्रमाणान्तरावगतत्वादात्मनो नायुक्तं तत्साधनमिति चेत; न; तथाप्यतिप्रसङ्गात् । तथा हि-यथा प्राणादेर्घटादिव्यावृत्तस्य दर्शनाज्जीवच्छरीरे तद्विशेषस्य साधनं तथा बालशरीरादिव्यावृत्तस्य विशेषतारतम्याधिष्ठानस्य तस्य युवादिशरीरे दर्शनात् पूर्वपूर्वविलक्षणैः सम्बन्धविशेषस्तत्र साधयितव्यः प्राप्नुयात् । प्राप्नोतु न कश्चिद्दोष इति चेत्, शास्त्रं तर्हि न्यून प्राप्तं तथा तस्यानिरूपणात् । न ५ प्राप्त प्रकृतविशेषनिरूपणादेव तस्यापि तज्जातीयत्वेनाभ्यहोपपत्तेरिति चेत्; आत्मनिरूपणादेव तर्हि प्रकृतस्यापि तद्धर्मत्वेनाभ्यूहात्तन्निरूपणमपि न भवेत् । तदपि न क्रियत एव प्रज्ञाशालिनं प्रति मन्दानुग्रहायैव तत्करणादिति चेत्, तदर्थं तर्हि परापरस्यापि तत्साधनस्य निरूपणं कर्तव्यमिति कथं शास्त्रमतत्करणात न्यूनमेव न भवेत् ? कुतश्चासा तद्विशेषो जीवच्छरीरे एव न लोष्टादावपि तत्कारण
स्यात्मनस्तत्रापि भावात् ? न ह्यविकले कारणे कार्यानुत्पत्तिः, नित्यस्य सहकारिप्रतीक्षायाश्च प्रतिक्षेपात । १० तन्नेदं व्यतिरेकिलिङ्गमुपपन्नम् ।
. यदप्यन्वयव्यतिरेकिणः सपक्षैकदेशवृत्तेरुदाहरणम् -अनित्यः शब्दः [ सामान्यवत्त्वे सति ] अस्मदादिबाह्यकरणप्रत्यक्षत्वात् कुम्भवदिति; तत्र कः पुनरसौ अस्मदादिः ? आत्मैव संसारीति चेत्; किं तस्य बाह्य करणेन कर्तव्यं यतस्तेन 'विशिष्येत ? विषयोपलब्धिरिति चेत्; सापि तस्येति
कुतः सम्बन्धात् ? समवायादिति चेत्; तस्य यदि सम्बन्धत्वमेव रूपम् ; समवायादिति निविषया श्रुति१५ रर्थाभावात् । सम्बन्धत्वस्यैव तादयें पौनरुक्त्यम् । यदि पुनः समवायशब्दावाच्यमन्यदेव तस्य
रूपम् ; तदपि न युक्तम् ; सम्बन्धश्रुतौ पूर्ववद्दोषात् । कुतश्चैवं तस्य प्रतिपत्तिः ? इहेदंप्रत्ययत्वात् 'लिङ्गादिति चेत्, क तस्य तेन व्याप्तिः ? इह कुण्डे दधीति प्रत्यय इति चेत्, न; तस्य संयोगादेव भावात्, तस्य च समवायविलक्षणत्वात् । अविलक्षणत्वमपि सम्बन्धवेनेति चेत्, अस्ति तर्हि तत्र
सम्बन्धत्वं साधारणं च समवायशब्दवाच्यं रूपम् । तयोश्च कस्तत्र सम्बन्धः ! समवाय एवेति चेत; २० न; तस्यैकस्यैवोपगमात् । अनेकत्वेऽनवस्थाप्रसङ्गात् । संयोग इति चेत्, न; तस्य गुणत्वेन द्रव्यः
श्रयत्वात्, समवायतद्रूपयोश्चाद्रव्यत्वात् । तद्विशेषणत्वमिति चेत्, न; तस्य सम्बन्धायत्तत्वेन स्वयमसम्बन्धत्वात् दण्डादिवत् । सम्बन्धत्वेऽपि तस्य समवायतद्रूपाभ्यामन्यत्वे कुतस्तयोरिति व्यपदेशः ? पुनरप्यन्यतः तद्विशेषणत्वादिति चेत् कथमनवस्थातो निर्मुक्तिः ? भवत्वमेद एव तत्र तयोः सम्बन्ध
इति चेत्, न; तस्याप्येकान्तेन भावे स एवेहेति दोषात्, अनेकान्तस्य च भवद्भिरनभ्यनुज्ञानात् । २५ तन्न समवायो नाम सम्बन्धो येनास्मदादेस्तदुपलब्धिः । तत्कार्यत्वात् सा तस्येति चेत्, व्यर्थं तर्हि
बाह्यकरणम् , अस्मदादेरेव तद्भावात् । ततोऽपि तत्सहायादेव न केवलादिति चेत्; सापि द्वयोरेव स्यात् न केवलस्य । एवञ्च
१-स्य यु-आ०, ब०, प०। २-ण:स- आ०, ब०, प० । ३ "अनित्यः शब्दः सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वात् ।” -न्यायसा० पृ० ६।४ विशेष्येत आ०, ब०, प० । ५- पि क्व तआ०, ब०, प०। ६ "इह तन्तुषु पट इत्यादिप्रत्ययः सम्बन्धपूर्वकः इहेदम्प्रत्ययत्वात् इह कुण्डे दधीति प्रत्ययवत्" -ता० टि०। ७ अस्मदादिकार्यत्वात् उपलब्धिः अस्मदादेः । ८ बाह्यकरणसहायादेव ।