________________
२।१७३ ] अनुमानप्रस्तावः
२०५ न; पंक्षीकृते तत्रापि तदपतिपत्तौ तदवस्थत्वात् भागतस्तदसिद्धत्वस्य । तदपक्षीकरणे तु नात्र कस्यचिदिति सर्वदर्शी निर्दिष्टः स्यात् । भवतु कस्यचित् सातिशयज्ञानस्य योगिन एव तथानिर्देश इति चेत्; न; अत्रापि व्यभिचारसम्भावनस्यानिवृत्तेः । शक्यं हि वक्तुं यथा तस्य विद्यमानोऽपि तत्सम्बन्धो न प्रत्यक्षस्तथा परमाण्वादयः प्रमेया अपि विरोधाभावात् , कुम्भादौ विद्यमानस्यापि साध्यान्वयस्याप्रतिवत्तेरविशेषात् । ततो योगिनोऽपि स प्रत्यक्ष एव वक्तव्यः इति तस्याप्रमेयत्वे न ५ सपक्षव्यापित्वम् । प्रमेयत्वेऽपि तस्य स्वयमप्रमिती भागासिद्धत्वम् । प्रमितौ पुनः तत्सम्बन्धस्यापि स्वयमेव प्रमितिः पुनरपि तत्सम्बन्धस्येति कथन्न तस्यापर्यवसायिन एव प्राप्तिः ? पर्यवसाने वा तद्वर्तिनस्तस्याप्रमेयत्वमेव प्रत्यक्षत्वेऽपीति न सपक्षव्यापित्वमस्य ।
____ यदपि व्यतिरेकिण उदाहरणमुपपादितम् -नेदं निरात्मकं जोवच्छरीरम् , प्राणादिमत्त्वात्, यत्तु निरात्मकं न तत्प्राणादिमत् यथा लोष्टादि, प्राणादिमञ्च जीवच्छरीरम् , अतो निरात्मकं नेति; तत्र यद्यात्मा १० न प्रतिपन्नः कथं 'यत्र नैरात्म्यं न तत्र प्राणादिः' इति तन्निवृत्त्या प्राणादिनिवृत्त्युपदर्शनम् ? अपतिपन्नस्य निवृत्त्युदर्शनायोगात् । प्रतिपन्नश्चेदन्यतः, व्यर्थमिदम् , अतोऽपि तत्प्रतिपत्तेरेव साध्यत्वात् । उपायवैचिच्यान्न दोष इति चेत् ; भवेदेवं यदि तदनपेक्षयैवायमुपायः स्यात्, न चैवं तदपेक्षयैवात्राप्यात्मनिवृत्त्युपदर्शनात् । अत एव तु तत्प्रतिपत्तौ भवति परस्पराश्रयः-सत्यामतस्तत्प्रतिपत्तौ व्यतिरेकनिर्णीतः, ततश्च तत्प्रतिपत्तेः । अथ मा भूत् तत्प्रतिपत्तिः, तथापि भवितव्यं तेन विशेषेण यो लोष्टादौ १५ स्वनिवृत्त्या प्राणादीन्निवर्तयति । स्वरसतस्तन्निवृत्तौ जीवच्छरीरेऽपि प्रसङ्गात् । तस्यैव चेह साध्यत्वम् , आत्मव्यपदेशस्यापि तत्रैव करणादिति; तदपि न युक्तम् ; चार्वाकदृष्ट्या भूतपरिणामस्य सौगतकल्पनया चित्तसन्तानस्य च तद्विशेषस्य सम्भवात् । तस्य निषेधात्तदन्य एव स विशेष इति चेत्; तन्निषेधोऽपि यद्यन्यत्वमात्रे पर्यवसितः, तस्यैव तन्निवर्तकत्वं नाभिमतस्य । अतत्पर्यवसायित्वे तु सिद्धस्तत एवात्मेति तदवस्थमस्य वैयर्थ्यम् । नन्वतः प्रतीतस्यैव तन्निषेधादपि विशेषावधारणं तत्कथमस्य वैयर्थ्यमिति ! तन्न; २० तथापि साक्षादस्य तत्प्रतिपत्तावनुपायत्वात् । अथ अत एव तन्निषेधसहितात्ततस्तत्प्रतिपत्तिः; न तर्हि पूर्व विशेषमात्रस्य परिज्ञानमिति कथं निषेधावतारः ? तस्य तत्परिज्ञाने पुनस्तद्विशेषप्रतीक्षायामेवोपपत्ते : । कथं वा तत्सहायादपि अतस्तत्प्रतिपत्तिः ? कथं च न स्यात् ? स्वनिवृत्त्या लोष्टादौ प्राणादिनिवर्तकस्यैव तदुपपत्तेः । न च भवदनुमतस्य तत्रापि निवृत्तिः सर्वगतत्वात् । स्वरूपतस्तदभावेऽपि सम्बन्धविशेषतोऽ स्त्येव सेति चेत् तस्यैव तर्हि साध्यत्वं निवर्तकत्वात्, नात्मनः । सत्यमिदम् , तस्यैवात्मशरीरसंयोगमे- २५ दात्मनो जीवच्छरीरे साधनादिति चेत् कथमात्मनि विप्रतिपत्तौ तमसाधित्वा तद्विशेषस्य साधनम् , आम्रान् पृष्टस्य ‘कोविदाराख्यानवदुपपन्नम् ? अप्रस्तुताभिधानेन निग्रहावाप्तेश्च । विप्रतिपत्तिरपि तत्रैवेति चेत् न, तथाप्यात्मन्यसाधिते तत्साधनस्यायोगात् । आत्मगतो हि धर्मस्तत्सिद्धावेव शक्यसाधनो नान्यथा ।
१ पक्षे कृते आ०, ब०, प० । २ विरोधात् आ०, ब०, प० । ३- न्वयप्र- आ०, ब०, प० । ४ "नेदं निरात्मकं जीवच्छरीरप्रमाणादिमत्त्वप्रसङ्गात्" । न्यायवा० पृ० ४६ । ५ यद्यात्मनाप्रआ०, ब०, प० । ६ निवृत्तिः । ७ तमसावहितत्वात्त- आ०,ब०,५०1८ 'कचनार' इति भाषायाम् ।