________________
२०४ न्यायविनिश्चय विवरणे
- [२।१७३ वस्य व्यतिरेकत्वात् । अन्वयिनि तदाक्षेपरहिते निदर्शनान्तरे तदप्रतिपत्तेरिति चेत् ; अन्वय्यपि न भवेत् घटादौ अनाक्षिप्तव्यतिरेके अन्वयस्याप्यप्रतिवेदनात् । अन्वयस्य प्राधान्यात् अन्वय्येवायमिति चेत्, न; साध्यप्रतिपत्तावविनाभावस्यैव प्राधान्यात् , सत्येव तस्मिन् व्यभिचारनिवृत्तेनिर्णयात् । तदाक्षेपकत्वेन दृढमन्वयस्यैव प्राधान्यमिति चेत्, अस्तु तर्हि पक्षधर्मस्यैव प्राधान्यम्, असति तस्मिन् ५ अन्वयस्याकिञ्चित्करत्वात् । ततो न तदाक्षेपात् तदेव तदित्युपपन्नम् । नापि ततोऽर्थान्तरं तन्नेति;
व्यतिरेक्यादौ अर्थान्तरस्यैव तस्य भावात् । विपक्षव्यावृत्तिरूपं खल्वविनाभावित्वमेव तत्र व्यतिरेकः । तच्चाबाधितविषयत्वादेः अर्थान्तरमेव, अन्यथा रूपभेदेन लिङ्गलक्षणत्वानुपपत्तेः । तत्राप्यबाधितविषयस्वादिकमेवाविनामावित्वं विपक्षव्यतिरेकस्तु तन्निर्णयार्थ एवेति चेत्, कुतस्ततस्तस्य निर्णयः ? सति
तस्मिन् तस्यावश्यम्भावात्; तर्हि साध्यस्यैव स्यात् तदविशेषात् , तत्तिमन्तर्गडुनाऽबाधितविषयत्वादिना १० साध्यसद्भावनियमाभावे तस्यापि दुर्लभत्वात् । ततस्तस्मादर्थान्तरमेवाविनाभावित्वम् , तस्य चान्वयिन्याक्षेपे अन्वयव्यतिरेकित्वमेव तस्य नान्वयित्वम् ।
___ असिद्धत्वाच्च । तच्च अर्थान्तरस्य सत्तायास्तत्सम्बन्धस्य च प्रतिक्षिप्तत्वात् । सिद्धस्यापि न गमकत्वं व्यभिचारात् । स च तेनैव प्रत्यक्षेण, यद्विषयत्वं साध्यं परमाण्वादीनाम्, सत्यपि तस्य सनसम्ब
न्धित्वे प्रत्यक्षत्वाभावात् । प्रत्यक्षमेव तदप्यन्येन प्रत्यक्षेणेति चेत्; तेन तर्हि व्यभिचारः स्यात् । १५ तस्यापि तदन्तरेण प्रत्यक्षत्वे देव वक्तव्यमनवस्थानं च । तेन सर्वस्य प्रत्यक्षत्वम् , तस्य त्वन्येन
तन्नानवस्थानमिति चेत्, न तेन स्वविषयस्य प्रत्यक्षत्वे स्वरूपवेदनप्रसङ्गात् । न हि स्वरूपमप्रतिपद्यमानं तद्विषयतया परं प्रत्यक्षयितुमर्हति । भवतु तर्हि स्वत एव तस्य प्रत्यक्षत्वमिति चेत्, न; स्वसंवेदनस्यासन्निकर्षजत्वेनाप्रत्यक्षत्वे ततः कस्यचित् प्रत्यक्षत्वानुपपत्तेः । परप्रसिद्ध्या प्रत्यक्षमेव स्वसंवेदनं
स्पष्टावभासित्वादतो नव्यभिचार इति चेत्, ‘स्वप्रसिद्धया तर्हि तदभावाद्वयभिचारश्चेति दुस्तरं व्यसनमाप२० तितम् । तन्नेदमुदाहरणमुपपन्नम् ।
__ यदप्यन्वयिनः °सपक्षव्यापिनस्तदुपद्रर्शितम्-परमाण्वादयः कस्यचित् प्रत्यक्षाः प्रमेयत्वात् कुम्भादिवदिति; तदपिन युक्तम्; व्यभिचारस्य तत्राप्यविशेषात् । अपि च, यदि प्रमितिरेव प्रमेयत्वम्। न पक्षधर्मत्वम् , तस्याः प्रमातृनिष्ठत्वेन परमाण्वादिष्वभावात् । तत्सम्बन्धः तदिति चेत्; तस्य यदि
प्रत्यक्षत्वेऽपि न प्रमेयत्वं न सपक्षव्यापित्वं प्रमेयत्वे तत्राप्यपरस्तत्सम्बन्धः तस्यापि प्रमेयत्वे २ पुनर२५ परस्तत्सम्बन्धः इत्यपर्यवसायी तत्प्रवन्धः प्राप्नुयात् । न चैवं प्रतीतिः प्रमेयत्वस्यानवस्थितेः । अथ
स एव न स्वप्रमितिसम्बन्धं तेषां प्रतिपद्यते यतोऽयं प्रसङ्गः, अपि तु पर एव, तेनापि स्वतत्सम्बन्धस्य न प्रतिपत्तिः, ततोऽपि परेणैव प्रतिपत्तेरिति; तन्न; स्वयमप्रमितस्याज्ञातासिद्धत्वप्रसङ्गात् । अस्त्येव वादिना परमाण्वादिषु तस्य प्रतिपत्तिस्तत्सम्बन्ध एव तस्य तेनाप्रतिपत्तिरिति चेत् ;
१- तिरि-आ०, ब०, प०।२ चेत्तर्हि आ०, ब०, प० । ३- ञ्च तदर्था- आ०,ब०, प० । ४ व्यभिचारः। ५ कस्यचित् प्रत्यक्षस्य । ६ वस्तुनः । ७ तर्हि आ०, ब०, प०।८ परप्र- आ०, ब०, प०।६ स्वप-आ०,ब०,प०।१० प्रमितेरेव प० । ११-यत्वात् आ०, ब०, प० । १२- त्वेन प- आ०, ब०, प०।१३-दस्यासिद्धत्वप्र- आ०, ब०, प०।