________________
अनुमानप्रस्तावः
२।१७३ ]
२०३ न्तरस्य स्पर्शस्येति ? अविनाभावादेः पूर्ववदेव प्रत्यवस्थानम् । भवतोऽपि कथं धूमोऽयमग्निमान् धूमत्वादित्यग्निमत्त्वज्ञानमेवाग्निज्ञानमिति चेत् ? अग्नितद्धर्मविषयतया लिङ्गादेव तस्योत्पत्तेः । न चैवं भवन्मते सम्भवति ; लिङ्गस्य अग्न्यपेक्षया व्यधिकरणत्वेनापक्षधर्मत्वात् । स्याद्वादिमते तु अपक्षधर्मस्यापि गमकत्वात् । न चाविनाभावस्य पक्षधर्मत्वादावेव पर्यवसायः; 'सन्ति प्रमाणानि इष्टसाधनात्, उदेष्यति शकटं कृत्तिकोदयात्' इत्यादौ तदभावेऽपि भावात् । तन्न कारणादिभेदेन लिङ्गत्रैविध्यस्य सम्भव इति । ५
वार्तिककारेण तु 'पूर्ववच्छेषवत् सामान्यतो दृष्टम्' इत्येतदेव त्रिसूत्रीकृत्य तद्विषयतया अन्वय्यादिभेदेन त्रैविध्यं लिङ्गस्योक्तम् । तत्र पूर्ववच्छेषवदित्येकं सूत्रम् । पूर्वशब्दः पक्षवाची पक्षस्यैव कथात्रयेऽपि पूर्वमभिधीयमानत्वेन पूर्वत्वात्, से व्याप्त्या विद्यतेऽस्येति पूर्ववत् पक्षे विद्यमानमित्यर्थः । शेषः सपक्षः तस्यैव लिङ्गाङ्गत्वेन प्रस्तुतयोः पक्षसपक्षयोः पक्षस्योपयोगे सत्युद्धरितत्वेन शेषत्वोपपत्तेः स विद्यतेऽस्येति शेषवत्, सपक्षे देशतः कायंतो वा विद्यमानमिति १० यावत् । अनेनान्वयी हेतुरुक्तः । पूर्ववत्सामान्यतोऽदृष्टमिति द्वितीयम् । पूर्ववदिति व्याख्यातम् । विपक्षे सामस्त्येनान्यथा वा यन्न दृष्टं तत् सामान्यतोऽदृष्टम् अनेन व्यतिरेकिसाधनमभिहितम् । पूर्ववच्छेषवत्सामान्यतोऽदृष्टमिति तृतीयम् , अनेन चान्वयव्यतिरेकीति । तत्र सपक्षैकदेशवृत्तेरन्वयिन उदाहरणम्-परमाण्वादयः कस्यचित् प्रत्यक्षाः सत्तासम्बन्धित्वात् घटादिवत् । तद्वत्तित्वं चास्य घटादावेव सपक्षे भावात्, सपक्षेऽपि सामान्यादौ विपर्ययात् । न चेदमत्राशङ्कनीयम्-'त्रैरूप्यादेरत्रास- १५ मग्रत्वादहेतुत्वमन्वयिन इति; 'तत्समग्रताया अन्वयव्यतिरेकिण्येवाभ्युपगमात्, इतरयोस्तु यथासम्भवं तदुपगमात् । अत एव चित्रभानोर्वचनम्-"'अन्वयादीनि रूपाणि साकल्येन अन्यतमवैकल्येन वा यत्र सन्ति तदनुमानम्" [ ] इति । तत्रोच्यते-यद्यन्वयिनोऽविनाभावो नास्ति कथं गमकत्वं व्यभिचारसम्भवात् ? अथास्ति; क तस्य प्रतिपत्तिः ? पक्षधर्म एव तस्याबाधितविषयत्वासत्प्रतिपक्षत्वाभ्यां प्रतीयमानस्याविनाभावितयैव प्रतिपत्तेरिति चेत्, न किञ्चिदिदानी २० सपक्षे सत्त्वेन ? अविनाभावाधिगमादेव हेतोर्गमकत्वात् । तस्य च विनैव तेन भावात् । भवतु १ सपक्षे सति तत्प्रतिपत्तिरिति चेत् ; न तत्राप्यन्वयस्यैव सति सत्त्वलक्षणस्य प्रतीते विनाभावस्य । न चान्वय एवाविनाभावः असत्यसत्त्वस्य ''तत्त्वात्, अभावस्य च भावभेदिन एवाभ्युपगमात् । अथाबाधितविषयत्वादिकमेव अविनाभावित्वम्, तच्चान्वयिनः स्वरूपमेव, ततः सपक्षे तत्प्रतिपत्तिरेवाविनाभावित्वस्यापि प्रतिपत्तिरिति; तत्रोच्यते-किं तद्विषयत्वादिना तस्याक्षेपात्तदेव तदित्युच्यते, किंवा ततोऽर्थान्तरं तन्नेति ? २५ प्रथमविकल्पे '२कथमाक्षिप्ताविनाभावस्यैवान्वयस्य प्रतीतेः अन्वयंव्यतिरेक्येवायं हेतुर्न भवेत् ? अविनाभा
१ मतेनास्वपक्ष- आ०, ब०, प० । २- व सू- आ०, ब०, प० । ३ “त्रिविधमिति अन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेति"-न्यायवा० पृ० ४०। तुलना-"तदनेन न्यायवार्तिकटीकाकारव्याख्यानमनुमानसूत्रत्य त्रिसूत्रीकरणेन..."-त० श्लो० पृ० २०६ । प्रमेयक० पृ० ३६२ । ४ वादजल्पवितण्डालक्षणकथात्रयेऽपि । तथाऽत्र योपि आ०, ब०, प०। ५ सत्त्वव्या- आ०, ब०, प०। ६ अवशिष्टत्वेन । ७ सपक्ष कदेशवृत्तित्वम् । ८ तत्र सम- आ०,ब०,५०६ अन्वय्यादी- ता० । १०-क्षे तत्प्र-आ०, ब०, . प० । ११ अविनाभावत्वात् । १२ कथमादिप्तौ वि- आ०, ब०, प० ।