________________
२०२
न्यायविनिश्चयविवरणे
[२।१७३ तदपि न कार्ये साध्ये किन्तु कारणधर्म एव तदुत्पादकत्वे । तथा चान्यत्र प्रश्ने अन्यत्रोत्तरं ब्रुवतः पश्यत विश्वरूपस्य न्यायकौशलम् ! भाप्यविरोधश्चैवम्-तत्र कारणेन कार्यस्यैवानुमानवचनान्न कारणधर्मेण तद्धर्मान्तरस्य । तेन तदन्तरानुमानमेव कार्यानुमानं भाष्यस्याप्येवमभिप्रायत्वादिति चेत्,
कथं पुनः तदुत्पादकत्वस्यानुमानं वृष्टेः ? न तावदभेदात्, कार्यस्य कारणधर्मादवश्यन्तया भेदात् । ५ अविनाभावादिति चेत्, व्यर्थमिदानीं तदुत्पादकत्वस्याप्यनुमानम् उन्नतत्वादितल्लिङ्गज्ञानस्यैव तज्ज्ञानत्वोपत्तेरविनाभावाविशेषात् ।
लिङ्गज्ञानस्य तत्साध्यज्ञानत्वे प्रलयं व्रजेत् ।
सिद्धयत्यत्रैवानुमानं त्रैविध्यं यत्र कथ्यते ॥१५२६॥ तदुत्पादकत्वात् वृष्टयनुमानोपपत्तः तदनुमानमेव वृष्टयनुमानमुच्यत इति चेत् ; १० ततोऽपि कथं व्यधिकरणात् तदनुमानम् ? उन्नतत्वादिवत्ततोऽपि कारणधर्मस्यैवापरस्यानुमानेन तदनुमानकल्पनायां चानवस्थापत्तेः । तन्नाविनाभावात्तदनुमानमेव वृष्ट्यनुमानम् । तद्विशिष्टत्वादिति चेत्, स्यादेतत् वृष्ट्य त्पादकत्वं वृष्टिविशिष्टम् अतः तज्ज्ञानमेव वृष्टेरपि ज्ञानमिति; तन्न; ततोऽपि भेदस्यानपाकरणात् । नहि तद्विशिष्टमित्येव तस्य ततोऽनर्थान्तरत्वम्; तद्विशिष्टत्वस्यैवाभावप्रसङ्गात् ।
तदनपाकरणे तु कथं तज्ज्ञानं तदर्थान्तरस्य विशिष्टस्य विशेषणापेक्षणादिति चेत्, एवमपि भवति १५ तज्ज्ञानाद्विशेषणस्यानुमानं न तु तदेव तस्येति अन्यथा कारणस्यापि कार्यापेक्षत्वात् तज्ज्ञानमेव
कार्यस्यापि ज्ञानमिति व्यर्थं पूर्ववल्लिङ्गकल्पनं भवेत् । अनुमानं तु ततस्तस्यानवस्थयैव दत्तोत्तरम् । तन्न तदुत्पादकत्वानुमानमेव वृष्टिपरिज्ञानम् । ततो दुर्भाषितमिदं परस्य-"भविष्यदृष्ट्युत्पादकत्वं
धों यदानुमितं तदा वृष्टेरनुमानं कथ्यते ।" [ ] इति । ____ यदपीदं शेषवत उदाहरणं भाष्ये प्रदर्शितम्-“पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं । २० शीघ्रत्वञ्च स्रोतसो ‘दृष्ट्वाऽनुमीयते भूता वृष्टिः [न्यायभा० १।१।५] इति । अत्रापि विश्व
रूपेण तात्पर्यमुक्तम् - "नदीशब्दवाच्यो गतविशेषो धर्मी तस्य उपरि वृष्टिमद्देशसम्बन्धित्वं साध्यो धर्मो धर्मिगतेन पूर्णत्वादिना धर्मेणानुमीयते ।"[ ] इति । तत्रापि तदेव वक्तव्यम्कथं पुनः कार्यधर्मस्यैवानुमानं तदर्थान्तरस्य भूताया वृष्टेरपीति ? अविनाभावादिति चेत्; उक्तमत्र लिङ्गज्ञानस्येत्यादि । ततः पुनस्तदनुमानेऽप्यभिहितमेवानवस्थानं विशिष्टस्य तद्धर्मस्य तवृष्टिविशेषगापेक्षत्वादित्यपि प्रतिविहितम् ‘एवमपि' इत्यादिना । तन्न उपरिवृष्टिमद्देशसम्बन्धित्वपरिज्ञानमेव भूतवृष्टिपरिज्ञानमप्युपपन्नम् ।
__ यदपि सामान्यतोदृष्टस्य भाष्ये प्रतिपादितम्-आदित्यव्रज्यानुमानमुदाहरणप्रतिनिधित्वेनावस्थाप्य स्वयमुदाहरणमुक्तं रूपेण स्पर्शानुमानमिति ; तत्रापि पक्षधर्मत्वादिकमपेक्षितव्यम् , अन्यथाऽविनाभावाभावेन गमकत्वायोगात् । सत्यम्, अपेक्ष्यत एव, रूपमिदं स्पर्शाविनाभाविरूपत्वात् प्रतिपन्नरूपवदिति तत्प्रवृत्तेरिति चेत; तर्हि तदेवात्रापि वक्तव्यम्-कथन्नाम रूपस्य स्पर्शाविनाभावित्वस्य परिज्ञानं तदर्था
१ -स्यै- आ०, ब०, प० । २ कारणज्ञानमेव । ३ दृष्टावनुमी- आ०, ब०, प० । ४ विश्वरूपेण ।
२०