________________
२।१७३ ]
अनुमानप्रस्तावः
२०१
हेत्वन्तरत्वात् । भवतु स्वभाव एव कृत्तिकोदयादिरपीति चेत्; न; धूमादेरपि तत्त्वप्रसङ्गात्, अविनाभावस्य तद्व्यवस्थाहेतोः तत्रापि भावात् । भेदप्रतिभासान्नेति चेत्; तदुभयादेरपि न भवेदविशेषादिति सूक्तम् - 'शेषवत्' इति । तद्वद् अन्योऽपि कृत्तिकोदयादेरपरोऽपि 'पक्ष्यादिरपि गमकः प्रत्यायकः साध्यस्य । कीदृश: ? सुपरीक्षितः सुष्ठु साध्यनिष्ठानियमवत्त्वेन परीक्षितः तर्केण विचारित इति । अस्ति ह्याकाशे पक्षिदर्शनात् अधः छायामण्डलस्य, तद्दर्शनाच्चोपरि पक्षिणः प्रतिपत्तिः । न ह्यत्र कार्यत्वम् ; ५ तुल्यकालत्वात् । न स्वभावत्वम्; भिन्नदेशत्वात् । परीक्षया तु अविनाभावाद् गमकत्वमतो न तन्नियमः । सत्यप्यत्र कार्यादित्वे न तद्व्यवस्थितिः, पक्षधर्मत्ववैकल्येन तद्वतो ऽस्य भेदात् न ह्यत्र पक्षिणः पक्षधर्म -- त्वम् ; भूप्रदेशे तस्यासम्भवात् । तस्य हि पक्षत्वं छायावत्त्वेन साधनात् । नापि तन्मण्डलस्य; आकाशे तस्याभावात् । न च भूप्रदेशाकाशसमुदायस्य पक्षत्वम्; तत्र हि अत्रेति निर्देशः स्यात् साध्यस्य न पुनर्यत्र लिङ्ग ं तत ऊर्ध्वमधस्ताद्वेति । तथैव च तत्प्रतिपत्तिर्दृश्यत इति ।
१०
साम्प्रतं नैयायिकादिकल्पितमपि तन्नियममतिदेशेन विधुरयन्नाह - एतेन पूर्ववद्वीत संयोग्यादौ कथा गता || १९७३ || इति । पूर्ववद्वीतसंयोगिशब्दानामादिशब्देन बहुव्रीहिः । तस्य च प्रत्येकमभिसम्बन्धात् पूर्ववदादिः वीतादिः संयोग्यादिरिति भवति । तत्राद्येन शेषवत् - सामान्यतोदृष्टयोः, द्वितीयेन अवीतवीतावीतयोः, तृतीयेन समवाय्येकार्थसँमवाय्य ( यि) विरोधिनामवरोधः, तस्मिन् पूर्ववद्वीत संयोग्यादौ १५ या कथा हेतुत्वनियमान्वाख्यानं सापि एतेन पूर्वोक्तेन न्यायेन गता निवृत्ता । नह्येवं नियम:'पूर्ववदादिरूपेण त्रिविधमेवानुमानम्' इति अधिकस्यापि कस्यचिद्भावात् । तथा हि- पूर्ववदिति कारणात् कार्यस्यानुमानम्, पूर्वं कारणमस्यास्तीति व्युत्पत्तेः । शेषवदिति कार्यात् कारणस्य, कार्यस्यैवोपयुक्तकारणादन्यतया शेषं शब्देनाभिधानात् । सामान्यतोदृष्टमिति चाकार्यकारण दकार्यकारणस्य । न च ‘अस्त्यात्मा उपलब्धेः' इत्यादि सत्तासाधनम् एतेषामन्यतममपि सामान्यतोदृष्टेऽपि तस्यापक्षधर्म - २० त्वादित्वेनानन्तर्भावात् । तद्गमकत्वस्य च समर्थितत्वात् ।
किच, पूर्ववदादेर्गमकत्वं त्रैरूप्यात्, पाञ्चरूप्याद्वा, तदन्यतरत्रैवाविनाभावपर्यवसानादिति स्वयमभ्युपगमात् ? तथा च यदेतत् पूर्ववतो भाष्यकारेणोदाहरणमुक्तम् - "मेघोन्नत्या भविष्यति वृष्टिः” [ न्यायभा० १|१|५ ] इति, तत्कथं गमकम् अपक्षघर्मत्वात् ? नात्र वृष्टः पक्षत्वम् असिद्धेः, सिद्धौ चानुमानवैफल्यात् । मेघस्य च सिद्धत्वेऽपि न पक्षत्वम्, अ , असाध्याधिकरणत्वात् । न हि वृष्टस्तदधिक- २५ रणत्वं भावित्वात् । यत्- पुनरत्र विश्वरूपेण समाधानमुक्तम् - " कारणस्यैव मेघादेः सिद्धत्वात् घर्मित्वं तद्दृष्टयुत्पादकत्वं साध्यो धर्मः उन्नतत्वादिना तद्धर्मेणैवानुमीयते ।" [ इति; तन्न सम्यक् ; न ह्येवमपि कारणे पक्षधर्मत्वस्यावस्थापनमपि तु तद्धर्म एवोन्नतत्वादौ ।
]
१ पक्षादिरपि आ०, ब०, प० । २ त्रैविध्यनियमः । ३ तस्य प्रत्यक्षं छा - आ०, ब०, प० । • भूप्रदेशस्य । ४ -स्य सप- आ०, ब०, प० । ५ न हि तर्ह्यत्र प० । ६ - ति प्रभ- प० । ७ - समवायविप० । ८ - मित्यादिकस्या- आ०, ब०, प० । ६ द्रष्टव्यम् - न्यायभा०, न्यायवा०, न्यायवा० ता०१ | १|५| १० शेषवत्त्वेनाभि- आ०, ब०, प० ।