________________
२००
न्यायविनिश्वयविवरणे
[ २।१७२-७३
दपीति चेत्; न; निरंशे वस्तुनि लेशाभावात् । तत एवोक्तम् - "एकस्यार्थस्वभावस्य " [ प्र० वा० ३।४२ ] इति । यद्येवमिदं कथमुक्तम् - " वस्तुलेशस्य चाश्रयः " [ ] इति ? पर एवेदं प्रष्टव्यो य एवमन्यो ऽन्यव्याहतमभिव्याहरति । ततः प्रतिषेधपर एव प्रयोगो युक्तः । कार्यहेतोरपि सामान्यविषयस्या तत्परतयैव स्वयं प्रतिज्ञानात् । ततो न सङ्गतमिदम् - " तत्र द्वौ वस्तु५ साधनौ" [ न्यायचि ० पृ० ३९ ] इति । न न सङ्गतम् ; तद्विषयस्य सामान्यस्य वस्त्वेकत्वाध्यव - सायादिति चेत्; न; अनुपलम्भस्यापि तत्साधनत्वापत्तेः । अभावस्यापि भावाव्यतिरेकिण एव लौकिकर्व्यवसायात् । तत इदं व्याहतम् - "एकः प्रतिषेधहेतुः " [ न्यायबि० पृ० ३९ ] इति । ततोऽनुपलम्भत्वेन सर्वस्यापि प्रतिषेधहेतुत्वादसङ्गतमेव तत्रेत्यादि ।
पुनरपि नियममेव विधुरयितुं लिङ्गान्तरमुपदर्शयन्नाह - अभविष्यत्यसम्भाव्यो धर्मो धर्मान्तरे क्वचित् ॥ १७२ ॥ शेषवद्ध तुरन्योऽपि गमकः सुपरीक्षितः । इति ।
धर्मः कृत्तिकोदयादिः क्वचित् कस्मिंश्चित् धर्मान्तरे शकटोदयादौ साध्ये हेतुः । कीदृश: ? भविष्यति अजनिष्यमाणे धर्मान्तरे तस्मिन् असम्भाव्यो ऽसम्भवितया कल्पनीयः तदविनाभावि - तया निश्चित इति यावत् । कथं हेतुः शेषवत् शेषं परोक्तात् कार्यत्वादन्यद कार्यत्वादि तद्वद्यथा १५ भवति । कार्यमेव कृत्तिकोदयः शकटोदयस्येति चेत्; कुत एतत् ? तत उत्पत्तेरिति चेत्; न; ततः प्रागेव निष्पत्तेः । निष्पन्ने च किं तेन कर्तव्यम् ? अकिञ्चित्करस्य कारणत्वेऽतिप्रसङ्गात् । तदविनाभावात् तत्कार्यमिति चेत्; नन्वेवमपि तस्य स्वभाव एव स्यात्, साध्यस्य तस्मिन्नर्थान्तरनिरपेक्षत्वेन भावात् अन्त्यक्षणप्राप्तकारणवत् । अन्यथा तत्कारणस्यापि कार्यत्वादेव लिङ्गत्वोपपत्तेः किमिति स्वभावत्वेन तदुपपादितं यत इदमर्थवत्
1
१०
“ हेतुना यः समग्रेण कार्योत्पादोऽनुमीयते ।
४
अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः ||” [ प्र०वा० ३।६] इति । "कीर्तिनैव तथा तदुपपादितं न प्रज्ञाकरेण भाविकारणवादिनेति चेत्; किं. पुनः कीर्तिस्तद्वादी न भवति ? तथा चेत्; कथं तद्ग्रन्थ एव "सत्तोपकारिणी " [ प्र०वा० १।५१] इत्यादिस्तङ्का " - दषरतया अलङ्कारकृता व्याख्यातः ? तदपि तस्यानभिप्रेतार्थमेव व्याख्यानमिति चेत्; नेदानीं तत्कार२५ णत्वं शास्त्रार्थः शास्त्रकारानभिप्रेतत्वादिति कथं तद्बलेन तदुदयस्य लिङ्गान्तरत्वप्रतिक्षेपान्नियमविघाते तत्प्रत्यवस्थानम् ? कथं वा तन्मतमुषषादयितुं प्रवृत्तेन तदनभिप्रेतस्य क्वचिदुपपादनं नित्यादेरपि प्रयोजनवशात् क्वचित् तत्प्रसङ्गात् । भवत्येव कीर्तिरपि तद्वादी, तथापि नान्त्यकारणस्य स्वभावत्वकल्पनं व्याहतं तत्र उभयधर्मसद्भावादिति चेत्; तथापि कथं तन्नियमः केवलात् कार्यात् स्वभावाच्च तदुभयात्मनस्तस्य
२०
१ नियमेन आ०, ब०, प० । २ - यावक- आ०, ब०, प० । ३ धर्मकीर्तिना । ४- नः स कीआ०, ब०, प० । ५ भाविकारणवाद । ६ " तदेतदानन्तर्यमुभयापेक्षयापि समानम्, यथैव भूतापेक्षया तथा भाग्यपेक्षयापि । न चानन्तर्यमेव तत्त्रे निबन्धनं व्यवहितस्यापि कारणत्वात् ।" - प्र० वार्तिकाल० ११५१ ।