________________
१९९
२।१७१-७२
२ अनुमानप्रस्तावः उपलब्धेश्च हेतुत्वादन्तर्भावात् स्वभावतः ॥१७१॥
तयोरनुपलम्भेषु नियमो न व्यवस्थितः । इति ।
उपलब्धेः उपलम्भस्य न केवलं कार्यादेरेवेति । अपिशब्दार्थः चशब्दः । हेतुत्वात् गमकत्वात् नियमः कार्यादिभेदेन त्रिविधमेव लिङ्गमित्यवधारणं न व्यवस्थितः। न हि कार्यादेरन्यस्यापि हेतुत्वे तन्नियमोषपत्तिः । अस्ति च तस्या हेतुत्वम् 'अस्त्यात्मोपलब्धेः' इत्यात्मसद्भावस्य ततः ५ प्रतीतेः । आत्मनो यद्यन्यतः प्रतिपत्तिरस्ति किमुपलब्ध्या कर्तव्यं सिद्धोपस्थायित्वात् ? अथ नास्ति न तस्या हेतुत्वमाश्रयासिद्धेरिति चेत्, भवेदेवं यद्याश्रयबलेन गमकत्वम् । न चैवम् , अन्यथानुषपत्तित एव तद्भावात् । निवेदितं चैतत्-'असिद्ध धर्मिधर्मत्वेऽपि' इत्यादिना । कथं पुनस्तदपरिज्ञाने कुतश्चित्तदन्यथानुषपत्तरप्यवगमः ? इत्यपि न चोद्यम् ; कार्यादावपि तत्प्रसङ्गात् । अप्रतिपन्नेऽपि साध्ये तस्य तत्स्वभावत्वात् भवत्येव परिज्ञानम्' इत्यपि समाधानम् उपलम्भेऽपि न विमुखभावमाविर्भावयति। १० कथं पुनरुपलब्धेर्गमकत्वं व्यभिचारस्यापि दर्शनात् ? न ह्युपलब्धिरित्येव भावास्तथा भवन्ति विभ्रमाभावापत्तेरिति चेत्, न; तन्मात्रस्य हेतुत्वानभ्युपगमात्, अन्यथानुपपत्तिसंवलितशरीराया एव तस्यास्तदभ्यनुज्ञानात् । न च तस्या व्यभिचारोऽनुपलब्धिवत् । का पुनरियमुपलब्धिर्यतस्तदस्तित्वं साध्यत इति चेत् ? इयमेव येयं तत्र तत्र बुद्धिर्विवर्तेष्वन्वितरूपतया अहमिति प्रतिभाति । न तत्र कश्चिदात्मा नाम तद्व्यतिरिक्तः प्रतिभातीति चेत्, सत्यम्; तस्या एवात्मत्वोषगमात् । न चैवमुपलब्धेयर्थ्यम्; १५ व्यवहारसाधनार्थत्वादनुपलब्धिवत् । एवमप्युपलब्धेस्तद्विषयाविष्वग्भावेन स्वभाव एवान्तर्भावात् कथं तया 'नियमाव्यवस्थितिरिति चेत्: अनुपलब्धिवत् साध्यभेदेनेति ब्रूमः । ततो भवत्येव तया तदव्यवस्थितिः अन्यथाऽनुपलब्धेरपि तत्रैवानुप्रवेशात् द्वैविध्यमेव स्यात् । तथा तयोः कार्यस्वभावयोः स्वभावतः स्वरसतोऽन्तर्भावादनुप्रवेशात् । क ? अनुपलम्भेषु त्रैविध्यनियमो न व्यवस्थितः सर्वस्यानुपलम्भत्वेन ऐकविध्यस्यैवोषपत्तेः । तथा हि-परस्यायं स्वभावहेतुः अनित्यः शब्दः प्रयत्नान्तरीय- २० कत्वादिति । तत्र प्रयत्नानन्तरीयकत्वं यदि प्रयत्नानन्तरं निष्पत्तिः; इयं विरुद्धव्याप्तोपलब्धिरेव नित्यत्वविरुद्धेन अनित्यत्वेनास्य व्याप्तत्वात् । अथ तज्ज्ञानम् ; तथापि विरुद्धकार्योपलब्धिरेव तस्य नित्यविरुद्धानित्यकार्यत्वात् । ततः कथमनुषलम्भेषु तयोरन्तर्भावो विरुद्धविधेरनुपलम्भभेदत्वेन स्वयमभ्युपगमात् । बहुवचनं कार्यादिबहुत्वेन तद्रूपानुपलम्भानामपि बहुत्वात् ।
स्यान्मतम्-यदा निषेधषरः प्रयोगो न नित्य इति तदा भवतु तत्रान्तर्भावः, यदा तु विधि- २५ पर एव अनित्य इति - तदा स्वभावादित्वेन तयोर्हेतुत्वान्न तन्नियमाव्यवस्थितिरिति, तन्न; सर्वदा लिङ्गस्य सामान्यविषयतया तन्निषेधपरतयैवावस्थानात्, अन्यथा तद्विषयत्वायोगात् । न हि सामान्य नाम अन्यव्यवच्छेदादपरं परस्य सम्भवति । तथा चोक्तम् - "अतद्रूपपरावृत्तवस्तुमात्रप्रसाधनात् ।" [ ] इत्यादि । विधिपरत्वे वा कथन्न वस्तुविषयत्वम् ? इष्टमेव लेशतस्त
१ न्यायविश्लो० २।६।२ उपलब्धिमात्रस्य । ३ "स्वभावहेतौ"- ता०टि० । ४ विध्यनियमाव्यवस्थितिः" -ता०टि० । ५ साध्याभेदेनेति आ०,ब०,१०। ६ “यदुक्तं धर्मकीतिना-अतद्रूपपरावृत्त..." -अष्टसह० पृ०२८ । “आह चात्र-अतद्रूप"-प्र० वार्तिकाल० १।२।७ -व ततस्तदपीति आ०,ब०, प०।