________________
१०
" तस्मात् तन्मात्रसम्बन्धः स्वभावो भावमेव वा ।
निवर्तयेत्कारणं वा कार्यमव्यभिचारतः ॥ " [प्र० वा० ३।२२] इति वचनात् । भवतु कारणत्वस्योक्तसमाधित्वात् स्वभावत्वादेव तस्य तन्नियामकत्वमिति चेत्, न; तन्मात्रसम्बन्धाभावात् । न ह्यव्यभिचारमात्रस्य तेन व्याप्तिः असत्यपि तस्मिन् रूपादौ तद्भावात् । ततो यदुक्तम् - "यस्य येन सह तादात्म्यतदुत्पत्ती न स्तो न स तदविनाभावी यथा प्रमेयत्वादि ( दे ) र्नित्यत्वादिना, न स्तरच केनचित्तादात्म्यतदुत्पत्ती स्वभावकार्यव्यतिरेकिणामर्थानामिति व्यापकानुपलब्धिः " [ हेतुबि० टी० पृ०९ ] इति; तत्प्रतिविहितम् ; तदभावेऽपि रसादे रूपादयविनाभावव्यवस्थापनेनानुपलब्धेर्व्यभिचारात् । तन्न नियामकत्वमपि कारणत्वम् । ज्ञापकत्वं तु प्रागेव प्रतिविहितम् । ततो न किञ्चिदपि कारणार्थमुत्पश्यामः । ततः स्थितं रसादे - कार्यस्यापि हेतुत्वान्न त्रैविध्यमिति ।
१५
तथा अर्वाग्भागसास्नादेरपि । न हि तस्यापि परभागविषाणादिकार्यत्वं तुल्यकालत्वाविशेषात् । तथापि कार्यमेव सत्येव तस्मिन् भावादिति चेत्; न किञ्चिदिदानीमकार्यलिङ्गं सर्वस्य साध्ये सत्येव भावात् । अभेदे स्वभावहेतुरपीति चेत्; न; तदा हेत्वाधिगमेनैव साध्यस्याप्यधिगमात्, अन्यथा भेदापत्तेः । न कृतकत्वादेस्तदव्यतिरिक्तमनित्यत्वं साध्यम्, अपि तु तद्व्यवहारस्तदन्यव्यवच्छेदो वेति चेत्; सिद्धं तर्हि तस्य तत्कार्यत्वं व्यतिरेके सत्यविनाभावादिति न स्वभावहेतुर्नाम कश्चित् । 'किम्वैवं कार्यत्वकल्पनेन ? अविनाभावनिर्णयादेव गमकत्वोपपत्तेः । ततो न तुलोन्नामादीनां तदुत्पत्त्या गमकत्वम् । नापि तादात्म्येन तदभावात् । कथं पुनस्तदभावो यविता तुलादिद्रव्यादव्यतिरेकादस्त्येव कथञ्चित् तेषामन्योऽन्यमपि तादात्म्यमिति चेत्; अत्राह
तादात्म्यं तु कथञ्चित् स्थात् ततो हि न तुलान्तयोः ॥ १७० ॥ इति । तुलान्तयोरुन्नामावनामवतोस्तुलाग्रयोः तादात्म्यमभेदो न तु नैव तोरवधारणार्थ
२०
न्यायविनिश्चयविवरणे
[ २।१७०-७१
तन्नोत्पादकत्वं कारणत्वम् । अस्तु तन्नियामकत्वम्, तन्निवृत्तौ नियमेन तस्यापि निवृत्तेः; इत्यपि न युक्तम्; कारणत्वादद्यभावे तस्याप्ययोगात् ।
१९८
20
२५
त्वात् । कुत एतत् ? ततः तस्मात् तुल्यकालत्वात् हि स्फुटम् । न हि तादात्म्ये तुल्यकालत्वं तस्य भेदित्वनिष्ठत्वात् । सर्वथा भेद एव तद्विरुद्धं न कथञ्चिदिति चेत्, न तथा स्वमतव्यापत्तेः, एकान्तनिरंशक्षणक्षीणस्वलक्षणवादविलोपस्यावश्यम्भावात् । ततः कथञ्चित्' इत्यत्र अपिशब्दो द्रष्टव्यः, ततः कथञ्चिदपि न केवलं सर्वथा स्यात् भवेत् तादात्म्यं तुलान्तयोः । नत्विति सम्बन्धः । न केवलं तुल्यकालत्वात् कथञ्चिद्वा चानिष्टापत्तेस्तुलान्तयोरेव न तादात्म्यमपितु अन्येषामपीत्याह"सास्नाविषाणयोरेवं चन्द्रार्वाक्परभागयोः । इति ।
प्रसिद्धार्थमेतत् । तदेवमुन्नामादेर कार्यस्वभावस्यापि लिङ्गत्वोपपादनेन त्रैविध्यनियमं प्रतिषिध्य पात्रकेसरिस्वामिनापि तन्नियमः प्रतिषिद्ध इति दर्शय स्तद्वचनमाह
१ किं चैवं आ०, ब०, प० । २ तुशब्दस्य । ३ भेदित्ववदनिष्ठ-आ०, ब०, प० । भेदनिष्ठत्वात् । ४ सर्वदा स्या- आ०, ब०, प० । ५ सास्नादीनां च -आ०, ब०, प० ।