SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २।१७० ] २ अनुमानप्रेस्तावः प्रतिपत्तिरेव ( तेरेव ) तत्प्रतिपत्तिस्तस्य रूपादिजननधर्मतया ततः प्रतीतेः । अत एवोक्तम्-" एकसामग्रयधीनस्य रूपादे रसतो गतिः । १५.० हेतुधर्मानुमानेन धूमेन्धनविकारवत् ||" [ प्र० वा० ३।८ ] इति चेत्; कथं पुनस्तद्धर्मणः प्रतीतेरेव तत्प्रतीतिः ? अव्यभिचारादिति चेत्; उक्तमत्र'हेतुप्रतिपत्तिरेव साध्यस्यापि प्रतिपत्तिरित्यनुमानमुत्सीदेत्' इति । न च प्रतिपन्नात्ततस्तत्प्रतिपत्तिः; कोरणलिङ्गप्रसङ्गात् । नचैवं पारम्पर्यप्रतिपत्तिः - रसादेस्तत्कारणस्य ततोऽपि रूपादेरवगम इति; रूपादेरेव झटिति ततस्तद्दर्शनात् । सत्यम्, स तु न स्वतो ऽविनाभावात्, अपि तु तदुत्पत्तिप्रयुक्तादेव । तदुक्तमर्चतेन -- “ रूपादिनापि रसादेरव्यभिचारो न स्वतः किन्तु स्वकारणाव्यभिचारद्वारक: ।" [ हेतुबि० टी० पृ०८ ] इति चेत्; किं पुनरेवं नियमः 'स्वकारणमव्यभिचरतस्तत्कार्येणाव्यभिचारः' इति ? तथा चेत्; न; असता तदयोगात् । सतैवेति चेत्; कुतः सत्त्वम् १ १० कारणभावादिति चेत्; न; नियमाभावात् " नावश्यम्" [ हेतुबि० टी० पृ० २१० ] इत्यादिवचनात् । नियम एव रसादेस्तस्यानुमानात् अन्यथा तदयोगादिति चेत्; न; परस्पराश्रयात् - सति तत्सत्त्वनियमे तत्र रसादेस्तदव्यभिचारद्वार को ऽविनाभावः, ततश्च तदनुमानात्तन्नियम इति । तन्नियमस्यान्यतः प्रतिपत्तौ तु व्यर्थमेव रसादिलिङ्गं भवेत् । तस्मात् स्वत एव तस्य तत्र अविनाभावो न तस्मात्, नापि तत्कारणादुत्पत्तेः । १५ 1 यत्पुनरत्रोक्तं तेनैव- “आकस्मिकस्तर्हि सर्ववस्तूनां स्वभाव इति न कस्यचित् स्यात् । नह्यहेतोर्देशकालद्रव्यनियमो युक्तः ।" [ हेतुबि० टी० पृ० ९ ] इति; तन्न; स्वहेतुप्रकृतेरेव नियतविषयतया तस्योत्पत्तेः, तत एव तत्मकृतेरप्यवगमात् । नियतविषया हि तदुत्पत्तिः कुतश्चिदवगम्यमाना “तत्प्रकृतिमवगमयत्येव, उत्पत्तिनियमस्य तदन्यत्रापि तदधीनत्वात् । अत इदमपि तस्यायुक्तमेव - " तच्चाव्यभिचारकारणं यथोक्तादन्यन्न युज्यते ।" [ हेतुबि० टी० पृ०९ ] २० इति; तदुत्पत्त्यादेरुक्तादन्यस्यापि तत्प्रकृतेर्भावात् । किञ्चेदं तस्य तत्कारणत्वम् ? उत्पादकत्वमिति चेत्; न तर्हि तस्मिन् सत्यप्यव्यभिचारः कारणे कार्यभावस्यानियमात् । ततो यथेदमुच्यते "संयोग्यादिषु येष्वस्ति प्रतिबन्धो न तादृशः । २५ न ते तव इत्युक्तं व्यभिचारस्य सम्भवात् ||" [ प्र० वा० ४।२०३ ] इति । तथेदमपि वक्तव्यम् - धूमादावपि यत्रास्ति प्रतिबन्धः स तादृशः । न सोऽपि हेतुव क्तव्यो व्यभिचारस्य सम्भवात् ॥ १५२५|| इति १ कारणं लि- आ०, ब०, प० । २ स्वतोपि भावात् आ०, ब०, प० । ३ " नावश्यं कारणानि कार्यवन्ति भवन्तीति सौगतवचनम् " - ता० टि० । ४ " उत्पत्तेरित्ययं शब्दोऽत्रापि सम्बन्धनीयः ।" - ता० टि० | ५ श्रर्चटस्य । ६ तत्प्रकृतेभा - आ०, ब०, प० ।
SR No.007280
Book TitleNyayvinischay Vivaran Part 02
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year1954
Total Pages538
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy