________________
न्यायविनिश्चयविवरणे
[२।१६९-७० तन्न सारम् ; एवं नित्येऽर्थक्रियानिषेधे ऽपि चोद्यात् । न ह्यप्रतिपन्ने तंत्र तन्निषेधः, प्रतिपन्न एव प्रदेशे मशकादिनिषेधोपलम्भात् । न च तस्य प्रतिपत्तिः प्रमाणात्; क्षणभङ्गवादव्याघातात् । कल्पनातश्चेत्, निषेध्यत्वमपि तद्विषयस्यैव स्यात्, अर्थक्रियाया अपि तादृश्या एव तत्त्वात् । प्रत्यक्षत एव
तस्याः क्षणभङ्गे प्रतिपत्तिरिति चेत्, नैवम् ; अनिश्चयात् । निश्चये वा किं नित्ये तन्निषेधेन ? स हि ५ ततस्तद्भङ्गसाधनाय, निश्चिते च किं तत्साधनेन ? समारोपस्यापि तत्रानुपपत्तेस्तद्व्यवच्छेदस्याप्यसम्भवात् । अनिश्चयेऽपि यदि प्रतिपत्तिः, तथापि किमर्थं तत्साधनम् ? व्यवहारार्थमिति चेत्, न; तस्यापि तत एव भावात्, कथमन्यथा ततो नित्ये तन्निषेधव्यवहारः । तन्न प्रत्यक्षतस्तत्र तस्याः- प्रतिपत्तिः, इत्यारोपिताया एव निषेधस्तथा तभङ्गादेरपीति सूक्तम्-'नापक्षे प्रत्यक्षवृत्तितः' इति ।
यत्पुनरेतत्-वैशेषिकादेः 'सामान्यसमवायादिकं निराकुर्वन् यदि न प्रतिपद्यते तन्निषेधहेतोरा१० श्रयासिद्धत्वम् । प्रतिपद्यते चेत्; कथं निषेधः ? तत्प्रतिपत्त्या बाधनात्' इति; तदप्यनेन प्रतिविहितम्;
प्रमाणतः प्रतिपत्तावेव तदनुपपत्तेर्न कल्पनातः । तत्प्रतिपन्नस्य च तस्य पनिषेधः कल्प्यते । अभ्युपगन्तव्यं चैतत्; कथमन्यथा स्वयमपि क्षणभङ्गादेनिराकरणम् । न हि तस्यापि सौगतादिकल्पितस्य क्वचित् प्रमाणतः प्रतिपत्तिः बुद्धयादावपि षटक्षणस्थायित्वादेरेव स्वयंमवगमात् । अथ न तस्य निषेधः;
कथं तद्वादी पराजीयताम् ? अप्रतिक्षिप्तपक्षस्य तदनुपपत्तेः । तद्विपर्यस्य नित्यादेविधानादेवेति चेत्, न; १५ अप्रतिपन्ने तस्मिन् तद्विपर्ययत्वस्यैव क्वचिदनधिगमात् । ततः कल्पनयैव तस्यापि प्रतिपत्तिरित्यलमनुबन्धेन । .
साम्प्रतम् उन्नामादेस्तदुत्पत्त्याद्यभावेऽपि गमकत्वोपदर्शनेन हेतुत्रैविध्यमपि विध्वंसयन्नाह
तुलोन्नामरसादीनां तुल्यकालतया न हि ॥१६॥ नामरूपादिहेतुत्वं न च तद्वयभिचारिता । इति ।
तुलाया उन्नामश्चोर्ध्वगमनं रसश्च तावादी येषामग्भिागसास्नादीनां तेषां न हि स्फुटम् । किम् ? नामश्चाधोगमनं रूपं चादिर्येषां परभागविषाणादीनां त एव हेतवो येषां तेषां भावस्तत्त्वम् । कया युक्त्या तत्तेषां न? तुल्यकालतया समसमयतयेति । न हि समसमयत्वे युक्तो हेतुफलभावः परस्परमनुपयोगात्, सव्येतरनारीकुचचूचुकवदनभ्युपगमात् । न चैवमहेतुत्वम् अव्यभिचारात् । न हि नामादेरुन्नामादिव्यभिचारो निर्व्यभिचाराया एव ततस्तत्प्रतिपत्तेरुपलम्भात् । न ततस्तस्य प्रतिपत्तिरपि तु गौरवादेः तस्य तत्कारणत्वात्, ततस्तु नामादिसहभाविन उन्नामादेरिति चेत्; तथापि व्याघात एव त्रैविध्यस्य कारणस्यापि "लिङ्गत्वोपगमात्, तथा रसादे रूपाद्यधिगमाच्च । ततोऽपि न तस्याधिगमः अपि तु तत्कारणस्यैव पूर्वरसादिस्तवकस्येति चेत्; न; रूपादेरेव समसमयस्य तदर्शनात् । तत्कारण
१ नित्ये । २ अर्थक्रियायाः। ३ अर्थक्रियायाः । ४ “अथ यदि परेण प्रमाणात्प्रतिपन्नः तेनैव बाध्यमानत्वादनुत्थानं विपरीतानुमानस्य ।..."-प्रश० व्यो० पृ०४६ । ५ "जैनादिः"- ता०टि। ६- तावेदनुप- आ०,ब०,प० । ७ “जैनः" ता०टि० । ८ "वैशेषिकादिना"-ता०टि०। ९-विशेषणाआ०, ब०, प० । १० -तुरव्यभि- आ०, ब०, प० । ११ लिङ्गस्योप- आ०, ब०,प० ।