________________
१९५
२।१६६]
२ अनुमानप्रस्तावः "प्रध्वस्तस्य न हेतुत्वं यथैव प्रागभाविनः ।
असतश्चेह भावेऽथ पश्चात्किन्न भविष्यति ॥" [ ] इति ।
अप्राग्भाविनोऽपि इष्टमेव हेतुत्वं भाविजन्मादयचित्तादाधुनिकस्य मरणचित्तस्योत्पत्तेः, अन्यथा ततस्तदनुमानासम्भवात् , कथमसौ असतो हेतुत्वे दृष्टान्त इति चेत् ? नन्वेवं मरणचित्तं कस्य हेतुः ? अहेतोः अवस्तुत्वप्रसङ्गात् । तत्पूर्वस्येति चेत् । तदपि तर्हि तत्पूर्वस्य तदप्येवं यावदा- ५ दयचित्तमिति । ततः कथं प्राग्भवचित्तस्यानुमितिः कारणलिङ्गस्यानुपगमात् ? अन्यथा मरणचित्तस्यापि तल्लिङ्गत्वा देव गमकत्वात् कार्यत्वकल्पनं वृथैव स्यात् । अथ तत् उत्तरचित्तस्येव प्राग्भवचित्तस्यापि कार्यमेव तदयमदोषः; तर्हि न कस्यचिदपि कारणमिति न वस्तु भवेत् । अथ तदपि तयोरन्यतरस्य हेतुरेव न तर्हि ततस्तस्यानुमानम् । ततो नासतः कारणत्वमिति सिद्धा कारणानुपलब्धिः ।
तथा कार्यानुपलब्धिरपि । तदयथा, न तदेकान्ते कारणं कार्यानुपलम्भात् । नहि तस्य १० सत्कार्यम्; निरपेक्षत्वात् । नाप्यसत्; विनापि तेनाभावात् । रूपान्तरेण तत्तस्य कार्यमिति चेत्; तदपि सत्; कथं तस्य ? असच्चेत्; स एव प्रसङ्गो ‘विनापि' इत्यादिरनवस्था च । यदि चासत् सद्रूपमापदयमानं तस्य कार्यम् ;न क्षणभङ्गः,तस्य पूर्वापरीभूतस्यैकस्योपगमात् । न पक्षान्तरेऽपि अयं प्रसङ्गः; क्रमेण चित्रवस्तुन्येव तत्र हेतुफलव्यवहारात् । तस्य च चित्रैकज्ञानवत् प्रतीत्युपारूढत्वात्, न तथा तदेकान्तस्य । ततः कार्यानुपलब्धिरपि गमिकैव । व्यभिचारशङ्कया तदगमकत्वकल्पनायाँ १५ नित्यादेरनिषेधापत्तेः।
तथा विरुद्धोपलब्धिरपि । तद्यथा- न नित्यो जीवः परिणामादिति । नित्यत्वविरुद्धस्य परिणामस्य जीवे दर्शनात् तत्र नित्यत्वप्रतिषेधोषपत्तेः कँचिदुष्णत्वोपलब्ध्या शीतप्रतिषेधवत् ।।
__ तथा विरुद्धव्याप्तोपलब्धिरपि । तद्यथा, नेदं निरात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति ।। नैरात्यविरुद्धेन सात्मकत्वेन ब्याप्तस्य प्राणादिमत्त्वस्य जीवच्छरीरे दर्शनात् तत्र नैरात्म्यप्रतिषेधोपपत्तेः, २० क्वचिच्छू रत्वस्य वनस्पतित्वविरुद्धवृक्षत्वव्याप्तस्य दर्शनात् वनस्पतित्वप्रतिषेधवत् ।
एवं विरुद्धकार्योपलब्धिरपि । तद्यथा कल्पनापोढमभ्रान्तमपि ज्ञानं न प्रमाणं विसंवादादिति । प्रामाण्यस्योक्तविशेषणे ज्ञाने तद्विरुद्धाऽप्रामाण्यकार्यस्य विसंवादस्योपलम्भेन निषेधोपपत्तेः, क्वचिद्रोमहर्षादिविशेषस्य शीतकार्यस्योपलम्भेन तद्विरुद्धपावकपतिषेधवत् । न चासिद्धा विसंवादोपलब्धिः; तत्र निरंशादिरूपेण दृष्टस्यापि विषयस्य स्थूलादिरूपेण प्राप्तः, अयथादर्शनप्राप्तेश्च २५ विसंवादार्थत्वात् । एवमन्या अप्यनुपलब्धयो वृत्तिप्रतिपादिता गमिकाः प्रतिपत्तव्याः ।
स्यान्मतम्-यदि क्षणक्षयैकान्तादेर्न प्रतिपत्तिः कथं स क्वचिन्नास्तीति तदनुवादी निषेधः ? 'नास्तीह घटः' इति प्रतीतस्यैव "तस्य "तद्दर्शनात् । प्रतिपत्तौ तु कथमनेकान्तनियमो भावेष्विति ?
१ क्षणिकैकान्ते । २ असद्रूपत्वात् । ३ असत् । ४ असतः । ५ "स्याद्वादिपक्षे” -ता० टि० । ६ क्षणिकैकान्तस्य । ७ कश्चिदुष्ण- आ०, ब०, प० । कचिदुपल- ता० । ८ सालत्वस्य । शूरः सालवृक्ष- . विशेषः । ६ -वादस्योप- आ० ,ब०, प०। १० दृष्टस्यादृष्टस्यापि प०, ता० । ११ घटस्य । १२ निषेध. दर्शनात् ।