________________
१९४ न्यायविनिश्चयविवरणे
[ २११६९ नित्यं सत्त्वमहेतोरित्येवं तर्हि वृथा वचः' ।
अहेतूत्पत्तिसद्भावे सत्येवैवं वचः स्थितेः ॥१५१६॥ .
अनुत्पन्नमपि पूर्वस्य कारणमेव ततः साध्यविकलं निदर्शनमिति चेत् ; न; तस्य तत्कार्यत्वात् । न हि कार्यादेव कारणम् ; अन्योऽन्याश्रयदोषात् । अन्योऽन्यमविनाभावादेव हेतुफल५ व्यपदेशो नान्योऽन्यस्मादुत्पत्तेस्तदयमप्रसङ्ग इति चेत्, उत्पत्तिस्तर्हि कुतः ? न कुतश्चित् ;
कथं सत्त्वम् ? उपलम्भादेव, “उपलम्भः सत्ता" [प० वार्तिकाल० २।५४ ] इति वचनात् । नित्यं तत्किन्नेति चेत्; नित्योपलम्भाभावादेव । ततो न तस्य कार्यत्ववत् कारणत्वमपि व्याहतमिति चेत्, न; एवमपि भवतो व्याघातस्य प्रसङ्गात् । तथा हि
कार्यत्वादाद्यचित्ते स्यादविनाभावनिश्चयः । व्यभिचारविशङ्कापि हेतुत्वेन प्रसज्यते ॥१५१७॥ तच्छकया ततो न स्यादनुमा पूर्वजन्मनि । तन्निर्णये भवेच्चापि सैषा ते दुस्त्यजा रुजा ॥१५१८॥ कार्यत्वादनुमासिद्धौ तच्छका क्रियते न चेत् ।।
न हेतुबलभाविन्याः स्वेच्छया वारणात्ययात् ॥१५१९॥ तस्मात् प्राग्जन्मचित्तस्य तत् कार्यमेव न कारणम् , उत्तरस्य च कारणमेवं पूर्वत्वात् प्रकृतचित्तवत्, तदपि तदुत्तरस्य तावदेवं यावदन्त्यं चित्तम्, तदपि भाविभवाद्यचित्तस्य । कथं पुनः कारणात्ततस्तदनुमानमिति चेत् ? कार्यादिवाविनाभावनिर्णयादिति ब्रूमः । चतुर्थं तल्लिङ्गं स्यादिति चेत्, यद्यतन्न्यायादापतति किमत्र कुर्मः ? तन्न प्राग्भाविनो हेतुत्वमिति भवत्येव असतस्तदभावे स दृष्टान्तः । ततः
अन्योऽन्याश्रयणादौ चंदुक्तं गजनिमीलनात् । कारणं भावि वक्तव्या तथा तस्य क्षणस्थितिः ॥१५२०॥ कुतो वा तस्य सा शक्तिर्यतः प्रध्वंसते स्वतः । स्वहेतोश्चेदवस्थानपध्वंसौ युगपन्न किम् ॥१५२१॥ तादृशी यदि शक्तः सा संतस्तौ क्रमभाविनौ । 'नाक्रमात्क्रमिणो भावा" इत्येतदुर्घटं भवेत् ॥१५२२॥ तन्नानुपरतौ हेतौ तस्योपरतिरात्मनः । इत्यनित्यत्ववार्ता ते तत्र दूरं पलायते ॥१५२३॥ इदमेवोदितं पूर्वैः स्याद्वादन्यायवेदिभिः ।
देवोऽपि कुरुते येषु विनयालङ्कृतं वचः ॥१५२४॥ १'नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।" -प्र०वा० ३३४ । २ तेषां ते आ०,ब०,प० । ३ -वमपू- आ०, ब०, प० । ४ चित्तं भावि-आ०, ब०, प० । ५ कार्यादेवावि- श्रा०, ब०, प० । ६ स्वतस्तौ आ०, ब०, प० । ७ प्र० वा० ११४५।