________________
१९३
२।१६६]
२ अनुमानप्रस्तावः लब्धेरिति चेत्, किमिदानीं तत्रानुमानेने ? आरोपव्यवच्छेदं इति चेत; तेनापि किम् ? सत्यप्यारोपे प्रवृत्त्यादिव्यवहारस्य . प्रत्यक्षादेव तत्समर्थादुपपत्तेः । तदसमर्थेऽपि तस्मिन् न किञ्चित् . तद्व्य वच्छेदेन, सत्यपि तस्मिन् व्यवहारस्यासम्भवात् । अथ सँ एव तस्य तत्सामर्थ्य तदयमदोषः; कथमर्थान्तरं स तस्य सामर्थ्यमतिप्रसङ्गात् ? सम्बन्धादिति चेत्, न; भेदे सत्युपकारादन्यस्य तस्यासम्भवात् । न च तस्योपकार्यत्वं नित्यवत् क्षणिकस्यापि निरंशस्य तदयोगात् । ५ भवत्वनुमानादेव तँस्योपलब्धिरिति चेत्, न; तस्याप्यनिर्णयरूपस्याप्रामाण्यात् तत्क्षणक्षयसंवेदनवत् । निर्णयरूपमेव तदिति ; कुतस्तस्य परिज्ञानम् ? स्वत इति चेत् तत्तस्यानिश्चयरूपमेव प्रत्यक्षत्वात् नीलादिप्रत्यक्षवत् । स्वाभिमुखमेव रूपं तस्यानिर्णयस्वभाव न बाह्याभिमुखमिति चेत्; तस्य तर्हि कुतः परिज्ञानम् ? स्वाभिमुखात्तदयोगात् । स्वत एवेति चेत्, तदप्यनिश्चयमेव पूर्ववत् प्रत्यक्षत्वादिति न निश्चयरूपं तस्योत्पश्यामः । "पुनस्तदन्तरकल्पनायामनवस्थाकल्पनात् । निश्चयान्त- १० रात् तत्परिज्ञानमेतेन प्रतिव्यूढम् । तन्न ततोऽपि तस्योपलब्धिरिति कथमसिद्धिरनुपलब्धेः ?
तथा न क्षणक्षयैकान्ते कार्य कारणानुपलम्भात् । न हि तत्र कारणत्व कस्यचित्; तत्समये "कार्यानुपगमात्, “सन्तानाभावप्रसङ्गाच्च । नापि भिन्नसमये; स्वयं तदानीमसत्त्वात् । तथा हियत्कार्यकाले नास्ति न तत्तत्कारणं यथा अनुत्पन्नम् , नास्ति च तत्काले प्रध्वस्तमिति ।
अपि च, असतोऽपि कारणत्वे यथा ततोऽनन्तरं कार्यं तथा ततः पुनस्ततोऽपि पुनः १५ किन्न स्यात् ? असतः तदापि तस्याविशेषात् । एव च कथं "तस्यानित्यत्वमनुषरमात् ? कारणस्यानुपरतिहेतोरेव" भावात् । अथ तदपहस्त्य स्वयमेवोपरतिः; एवं सति उपरतिवत् उत्पत्तिरपि तस्य स्वाधीनैव स्यात् । तादृगुत्पत्तिनित्यैव भवेदिति चेत् ; उपरतिरपि स्यात् ।
तथा च हेतुसामर्थ्यादुत्पत्त्या तस्य भूयताम् । स्वतः किं वोपरत्येति दुस्तरं दौस्थ्यमापतेत् ॥१५१३॥ क्षणादेवोर्ध्वमस्थानं तस्य चेत् स्यात् स्वशक्तितः । क्षण एव ततः स्थानं तस्य कस्मान्न करप्यते ॥१५१४॥ उत्पन्नस्य स्वतः शक्तिः शक्तादुत्पत्तिरित्यतः । अन्योऽन्याश्रयदोषाच्चेन्नैष “पक्षोऽवकल्पते ॥१५१५॥
१ "सर्वे क्षणिक सत्त्वादित्यादिना"- ता० टि०। २ "तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः । भ्रान्तेनिश्चीयते नेति साधनं सम्प्रवर्तते ।" इति वचनात् । ३ व्यवहारासमर्थेऽपि । ४ 'अारोपव्यवच्छेद एव ।" -ता० टि० । ५ प्रत्यक्षस्य । ६ सम्बन्धस्य । ७ क्षणिकत्वस्य । ८ तस्यानि-आ०,ब०, प०। ९ "सर्वचित्तचैतानामात्मसंवेदनं प्रत्यक्षमिति वचनात् ।"-ता० टि० । १० सुगतस्त-आ०, ब०, प० । ११ कार्येऽनुपग- ता० । १२ यदि कारणकाले कार्य स्यात्तदा सर्वस्योत्तरोत्तरक्षणस्य श्राद्यक्षणवृत्तित्त्वप्रसङ्गः, अनन्तरंच नाशत् सन्तानाभावः स्यादिति भावः । १३ उत्तरोत्तरक्षणेषु । १४ तस्यान्तिकत्वमनु-आ०, ब०, प० । १५ यतः कारणादनुपरतिः तस्य कारणस्य सद्भावात् । १६ पक्षोऽत्र क-प०।