________________
१६२
न्यायविनिश्चयविवरणे
[२।१६८-६९ ततो भवति तदन्यत्राप्येवमिति कथमनवस्थातो निर्मुक्तिः ? तत्र स्वतःसिद्धादेव ततस्तद्भावे दृश्याभावेऽपि तत्सिद्धादेव स भवतीति व्यर्थं ततस्तज्ज्ञापनम् । कथं च तज्ज्ञापनमेव व्यवहारस्य ज्ञापनम् ! अविनाभावादिति चेत्; सर्वत्र हेतुज्ञापनमेव साध्यज्ञापनमित्यनुमानमुद्रा दोद्र्येत । कथं वा तदविनाभावित्वं तस्य स्वयं तत्कारणत्वेनातत्कार्यत्वात् ? अत एव अतत्स्वभावत्वाच्च । स्वहेतोस्तथैवोत्पत्तेरिति चेत; कुत ५ इदमवगन्तव्यम् ? तदुत्पत्त्यादेरवगमोपायस्याभावात् । विचारादेव कुतश्चिदिति चेत्, सिद्धं तर्हि तद्विषयादेकलक्षणबलादेवानुपलम्भस्य हेतुत्वं न तदन्तरेणेति । ततः सूक्तम्-'अन्तरेण' इत्यादि । विधानेऽपि तस्य तत एव हेतुत्वोषपत्तेः । कस्य पुनर्विधानं यत्र तस्य हेतुत्वम् ? निषेध्यस्यैवेति चेत् ; न; असति तस्मिन् तस्यैव विरोधात् । भूतलादेरिति चेत्; न, तस्याविप्रतिपत्तित्वेनासाध्यत्वात् । न
हि साङ्ख्यस्यापि तत्र विप्रतिपत्तिः “सर्व सर्वत्र विद्यते" [-] इत्यागमारोपितसंस्कारस्य १० दृश्यनिषेध एव तस्य स तद्भावात्, अतः स एव तेन साध्यते यद्यत्र दर्श नलक्षणप्राप्तं न दृश्यते
ततत्र नास्ति यथा चेतनात्मनि प्रधानरूपत्वम् , न दृश्यते च तादृशो घटादिः प्रदेशादिविशेषे इति, ततस्तत्रैव हेतुत्वं तस्य न तद्विधान इति चेत्, न, तथा कार्यस्वभावयोरपि 'नेहानमिः धूमात्, नेह नित्यत्वं कृतकत्वात्' इत्यनग्न्यादिप्रतिषेध एव तद्विप्रतिपत्तिविषये हेतुत्वप्रसङ्गात् नाग्न्यादिविधौ अवि
प्रतिपत्तेः । एवं च कथमिदं सङ्गतम्-"तत्र द्वौ वस्तुसाधनी" [ न्यायबि० पृ०३९ ] इति । १५ तदारोपितानग्न्यादिविविक्ते अग्न्यादौ वस्तुन्येव तस्य हेतुत्वादिति चेत्; निषेध्यविविक्ते प्रदेशे वस्तु
न्यनुपलम्भस्यापि किन्न तथा हेतुत्वं यत इदं सूक्तं भवेत्-“एकः प्रतिषेधहेतुः" न्यायबि०पृ०३९] इति । ततो युक्तं विधावप्येकलक्षणबलात्तस्य हेतुत्वम् ।
इदानीं तत्प्रपञ्चं दर्शयति
प्रपञ्चोऽनुपलब्धेनापक्षे प्रत्यक्षवृत्तितः ॥१६८॥
प्रमाणं सम्भवाभावाद्विचारस्याप्यपेक्षणात् । इति ।
अनुपलब्धेः प्रपञ्चः स्वभावानुपलब्ध्यादिरूपो भेदः प्रमाणं भवतु प्रतिषेधविषक्षे विधौ तद्विरुद्धस्योपलम्भस्य प्रत्यक्षापरव्यपदेशस्य प्रवृत्तित इति चेत्, न; अपक्षे प्रत्यक्षवृत्तितः किन्तु सम्भवाभावात्तत्रानुपलम्भस्य । सोऽपि तत्र तद्वृत्तिरेव ततस्तत एव प्रमाणमिति चेत्, न; प्रतिषेधनियमस्यैव तत्त्वात् । तन्नियमोऽपि तद्वृत्तित एवावगम्यते इति चेत् ; न; निरूपितरूपात् विचारादेव तदवगमात् । अत एवाह-विचारस्याप्य पेक्षणात्' इति । अपिः अवधारणे विचारस्यैव तदवगमं प्रत्य पेक्षणात् । तत एव सप्रमाणं न तत्र तद्वत्तित इति । तत्र स्वभावानुपलब्धियथा 'न भावेषु क्षणक्षयकान्तोऽनुपलब्धेः' इति । असिद्धानुपलब्धिः प्रत्यक्षतः सर्वत्र तस्यैवोप
१ -भावादितीति आ०, ब०, प० । २ 'यो वा सांख्योऽत्यन्तविमूढः सर्वे सर्वत्र विद्यते इत्याग्रहवान् ।” -प्र० वार्तिकाल० ४।२६३। ३ प्रदेशवस्तु-श्रा०, ब०, ५०। ४ विधानस्याप्ये- आ०, ब०, प० ।५-धविषयस्यैव आ०, ब०, प० ।