________________
२।१६७-६८ ]
२ अनुमानप्रस्तावः
१९१
पिशाचादेरपि तथा दृश्यत्वोपपत्तेः । ततो न स्वभावानुपलम्भात्तन्निषेधः । नापि कार्यानुपलम्भात्, ततोऽपि तदुपलम्भनिषेधादेव तन्निषेधात् । “अनिषिद्धोपलम्भस्याभावासिद्धेः” [ ] इत्यभिधानात् । न चादृश्यस्य तन्निषेधेऽपि निषेधः संशयोपगमात् । भवन्नपि व्याहारादिकार्यानुपलम्भात्तस्य निषेधः अप्रतिबद्धशक्तिकस्यैव स्यान्नापरस्य तत्कथं तद्विवेकानिश्चयाद्दाहादिसाहसकरणं पातकप्रसङ्गात् । अथ व्याहारादौ तत् प्रतिबन्धविकलमेव ततो भवत्येव तदनुपलम्भात्तस्य निषेधः, सति तस्मिन् तस्या- ५ सम्भवादिति चेत्; आगतोऽसि पन्थानम्, अदृश्य विशेषणस्यापि तस्यान्यथानुपपत्त्या गमकत्वोपगमात् । इदमेव केवलमपरीक्षितमुक्तवानसि " नावश्यं कारणानि कार्यवन्ति भवन्ति " [ हेतुबि ० टी० पृ० २०९ ] इति । अवश्यं तद्वतोऽपि विज्ञानादेः भावात्, अन्यथा तत्प्रभवादनुपलम्भात्तन्निषेधानुपपत्तेः । तच्चावश्यम्भावितद्वत्त्वं तर्कादेव शक्यनिर्णयमुपायान्तराभावात् । तदेवमदृश्यानुपलम्भस्य गमकत्वमन्यथानुपपत्तिबलेनोपपाद्य दृश्यानुपलम्भस्यापि तत एव तत्, न तदन्तरेणेति दर्शयन्नाहप्रत्यक्षानुपलम्भश्च विधानप्रतिषेधयोः ॥ १६७॥ अन्तरेणेह सम्बन्धमहेतुरिव लक्ष्यते । इति ।
१०
१५
२०
उपलभ्यत इति उपलभ्यतेऽनेनेति वा उपलम्भः तदन्यः अनुपलम्भ: भावान्तरमुपलम्भयोग्यं तज्ज्ञानं वा । प्रत्यक्षस्य दृश्यस्य स च सोऽपि न केवलं कार्यादेरेव अहेतुरिव अगमक इव लक्ष्यते । कथम् ? इह अन्यथानुपपत्तौ सम्बन्धं साङ्गत्यमन्तरेण विनेति । क्व स तथा लक्ष्यते ? विधानप्रतिषेधयोः विधानं प्रदेशादेः प्रतिषेधो घटादेस्तयोरिति । तथा हि-न तावत् प्रतिषेधः कस्यचित्तुच्छो ऽनभ्युपगमात् । प्रदेशादिभावान्तरस्वभावत्वेऽपि न तत्र अनुपलम्भस्या ऽप्रतिपन्नस्य हेतुत्वम् ; असिद्धस्यान्यथानुपपत्तिवैकल्यात् । प्रतिपत्तिरपि तस्य यदि प्रतिषेधरूपत्वेनान्यतो ऽनुपलम्भात्; अनवस्थापत्तिः । स्वतोऽपि यद्यनिश्चयरूपा; तदेवाहेतुत्वम् । निश्चयात्मिकायां तु व्यर्थं तस्य तत्र हेतुत्वम् ; तन्निश्चयादेव प्रतिषेध्याभावस्यापि निश्चयात्, तद्विषयतयैव तत्र तदुत्पत्तेः । न तन्निश्चयार्थं तस्य तत्त्वमपि तु तत्रासदिति ज्ञानार्थम् ; इत्यपि न युक्तम् ; अनुपलम्भस्यैव तदसज्ज्ञान`त्वात् । ततोऽपि तदन्तरकल्पनाया मनवस्था दोषात् । तदभिधानार्थमित्यपि नोत्तरम् ; उत्पत्तावेव निश्चयरूपस्य तस्य साभिधानत्वात् । अनभिधानत्वेऽपि कुतस्तस्य तादर्थ्यम् : तस्य करणात्, ज्ञापनाद्वा ? करणादिति चेत्; न; ज्ञापकस्याकारकत्वात् । ज्ञापनादिति चेत् तथापि कथं तज्ज्ञापकस्य प्रतिषेधज्ञापकत्वम् ? तस्यापि तद्विषयस्यैव ज्ञापनादिति स चेत्; यद्यस्ति किं ततस्तज्ज्ञापनेन ? प्रत्यक्षादेव ज्ञप्त ेः । अथ नास्ति; नास्ति ज्ञापनमसतस्तदयोगात् । प्रतिषेधस्य तद्योग्यत्वज्ञापनमेव तज्ज्ञापनमिति चेत्; न; असति तस्मिन् योग्यत्वस्यापि तदपेक्षस्यासम्भवात् । सम्भवेऽपि किमर्थं तज्ज्ञापनम् ? अभिधानादिव्यवहारार्थमिति चेत्; स किमनुपलम्भविषयादेव ततो न भवति येन ततस्तज्ज्ञापनं" ततश्च स इति पारम्पर्यं परिकल्प्यते ? तथा चेत्; अनुपलम्भेऽपि तदन्यज्ञापितादेव स
२५
१ तत्कार्यादेव आ०, ब०, प० । २ गमकत्वम् । ३ यद्यपि निश्चयरूपात्तदे - आ०, ब०, प० । ४ तद्वत्स - आ०, ब०, प० । ५ - पकंत आ०, ब०, प० ।