________________
१९०
न्यायविनिश्चयविवरणे
[ २।१६६-६७
विशेषात् । अन्यथा तेषामहेतुकत्वेन नित्यत्वप्रसङ्गात् । अग्निं प्रत्येव तेषामहेतुकत्वं न हेत्वन्तरमपीति चेत्; न तर्हि तेषां धूमरूपत्वं सामग्र्यन्तरादुत्पत्तेः पदार्थान्तरवत् । हेत्वन्तरमप्यनलादिसामग्र्यन्तर्गतमेवेति चेत्, सिद्धमनलं प्रत्यपि तेषां कार्यत्वमिति कथन्न ततस्तत्र तन्नियमः ' ? तथाप्यभावे न तन्निर्णयात्तन्निर्णयः सत्यपि तस्मिन् तदभावात् । विशिष्टस्यैव तस्य निर्णयान्निर्णयत५ स्तन्नियमस्य न तन्मात्रस्येति चेत्; ननु विशेषोऽपि तस्य तन्नियम एव नोपरस्तस्येतरत्रापि सम्भवात् । तथा च निर्णयेपि तन्नियमस्य तद्विशिष्टतया कार्यनिर्णयस्ततोऽपि तन्नियमस्येति परस्पराश्रयणं नाम प्रतिषेधमनुपतति । अन्यतस्तन्निर्णये वा तावता गमकत्वाद् व्यर्थं तदर्थं कार्यत्वकल्पनम् + तथा तत्स्वाभाव्यकल्पनम् । ततो हि गमकत्वे प्रयत्नजन्यत्वं प्रत्यनित्यत्वस्यापि तद्भवेत्, तन्मात्रानुबन्धिनस्तस्य घटादौ प्रतिपत्तेः, तदनुबन्धिन्येव साध्यधर्मे कृतकत्वादेरपि हेतुत्वस्य १० परैरिष्टत्वात् । तस्य तदनुबन्धित्वमेव नास्ति विद्युदादौ सत्यपि तस्मिन्नभावादिति चेत ; तदा अनित्यत्वमपि क्वचित् कृतकत्वादौ सत्यपि तथा न भवेत् । भवत्येव तथा दर्शनादित्यपि न युक्तम् ; घटादिभाविनस्तस्य प्रयत्नजन्यत्वेन व्यभिचारात्, सर्वत्र भाविनश्च तस्यार्वाग्दर्शिष्वभावात् । तथापि कथमदृष्टस्तद्भावः क्वचित् कल्प्यत इति चेत्; न कल्प्यते किन्तु संशय्यते तज्जातीये प्रयत्नजन्यत्वे दर्शनात् । अथ तादृशस्तस्य नियमो ऽस्ति यत् सति तस्मिन् भवत्येवेति ततो न संशयस्तत्रेति चेत्; १५ सोऽपि कुतः तदनुबन्धादिति चेत्; : न; अन्योऽन्यसंश्रयात् - ततो नियमो नियमाच्च स इति । अन्यतो नियमनिर्णये वा 'तावता' इत्यादेर्दोषात् । तन्न तदुत्पत्त्यादिनिर्णयात् हेतुः पृथगविनाभावनिश्चयादेव तदुपपत्तेः । तदेवं कार्यादावन्यथानुपपन्नत्वादेव हेतुत्वमवस्थाप्य अनुपलम्भेऽपि तत एव तदव
स्थापयन्नाह -
२०
यथा कार्य स्वभावो वाप्यन्यथाक्यसम्भवः ॥ १६६॥ हेतुचानुपलम्भोऽयं तथैवेत्यनुगम्यताम् । इति ।
कार्यं धूमादिः स्वभावः कृतकत्वादिः 'वा' इति समुच्चये । यथा येनोक्तन्यायप्रकारेण अन्यथाशङ्कथसम्भवः साध्याभावेनाशङ्कनीयात्मलाभो - हेतुर्न तदुत्पत्त्यादिप्रतिबन्धात् तथैवानुपलम्भोऽपि चशब्दस्य अपिशब्दार्थस्यात्र सम्बन्धात् । अयं प्रसिद्धो हेतुरित्यनुगम्यताम् अन्यथाशङ्कयसम्भव एवेति । तथा च दृश्यविशेषणस्येवेतरस्यापि तादृशस्य गमकत्वमिति मन्यते । २५ युक्तं चैतत् कथमन्यथा क्वचिद्विज्ञानादिनिरोधलक्षणस्य मरणस्य ततः प्रतिपत्तिः न हि विज्ञानादेर्दृश्यत्वम् ; दर्शनप्रत्ययौं साकल्येऽपि स्वभावविशेषस्याभावात्, तदुभयरूपत्वाच्च दृश्यत्वस्य । अस्त्येव स्वशरीरे तत्तस्येति चेत्; किं पुनः शरीरान्तरे तन्निषेधो मरणम् ? तथा चेत्; न; सर्वदा तत्प्रसङ्गात् । तज्जातीयत्वात्तदैन्तरगतमपि दृश्यमेवेति चेत्; किमिदानीमदृश्यं नाम यत्रानुपलम्भात् संशयः स्यात् ?
1
१ परस्येतर - ता० । २ ये हि त- आ०, ब, प० ! ३ - येन ता- आ०, ब०, प० । ४ तदनुसन्धिनैव आ०, ब०.५० । ५ -यत्वे तु आ०, ब०, प० । ६ - यः सा ता० । ७ - तदनन्तरगतम- आ०, ब०, प० । शरीरान्तरगतमपि ।