________________
१८९
२।१६४-६६]
२ अनुमानप्रस्तावः तदेवं निश्चये ऽपि समानमिति तद्व्यापारान्तरोपन्यासेन दर्शयति
लिङ्गसावृतयोस्तुल्या गृहीतग्रहणादपि ॥१६४॥ __ व्यवच्छेदाविसंवादव्यवहर्तृप्रवृत्तयः । इति ।
लिङ्ग क्षणभङ्गाद्यनुमानं लिङ्गोऽर्थत्वात्, सांवृतं निश्चयज्ञानं तयोः 'प्रामाण्यम्' इति . वक्ष्यमाणेन सम्बन्धः । 'तुल्यम्' इति वचनपरिणामेन । कुतस्तुल्यमिति ? तयोर्यतः तल्याः समानाः । ५ काः ? व्यवच्छेदश्च समारोपस्य अविसंवादश्चाविप्रतिसारं व्यवहतप्रवृत्तिश्च व्यवहारिप्रवर्तनं ताः । कुतोऽपि तास्तुल्याः 'तद्वा तुल्यं तयोः गृहीतग्रहणादपि अपिशब्दात् अवस्तुविषयत्वात् । अत्रापि तुल्यत्वादिति विभक्तिपरिणामेन सम्बन्धनीयम् । अयमों यदि गृहीतग्रहणमाश्रित्याषि अनुमानस्य प्रामाण्यं व्यवच्छेदादेः प्रयोजनात् , तत् निश्चयेऽपि तुल्यं तदाश्रयणस्य तत्प्रयोजनस्य च तत्रापि तुल्यत्वादिति । अविसंवादव्यवहारयोनिश्चये परस्यापि प्रसिद्धत्वात् । तत्र व्यवच्छेदं दर्शयन्नाह- १०
शब्दाद्ययोगविच्छेदे तत्प्रामाण्यं न किं पुनः ॥१६५॥ इति ।।
शब्द आदिर्यस्य घटादेस्तस्य अयोगः स्वरूपेणाघटनम् अभेदवादिपरिकल्पितस्तस्य विच्छेदो निश्चयात् । न हि निश्चितस्यायुक्तिरभेदेऽपि तत्प्रसङ्गादिति तस्मिन् तत्प्रामाण्यं निश्चयप्रामाण्यं न किम् ? भवत्येव । पुनरिति वितर्के । तद्विच्छेदस्याप्यनुमानादेव भावात् किं निश्चयेनेति चेत् ? अत्राह
१५ अनुमानं तु हेतोः स्यात् [ अविनाभावनिश्चयात् ] । इति ।
तात्पर्यमत्र-हेतोः अनुमानं स च भेदरूपत्वेन परं प्रत्युक्त एवेति कथं ततोऽनुमानम् अन्यतरासिद्धः ? तदयुक्तरप्यनुमानान्तराद् व्यवच्छेदे तदेवोत्तरम्-'अनुमानं तु हेतोः स्यात्' इति । पुनस्तदयुक्तरेपि तदन्तराद्व्यवच्छेदेऽनवस्थांपसक्तिरिति । ततो निश्चयादेव तद्व्यवच्छेद इत्युपपन्नमिदं 'तत्प्रामाण्यं न किं पुनः' इति । ननु निश्चयस्यापि भेदरूपस्यायुक्तिर्यदि निश्चयान्तराद् व्यवच्छिन्ना २० अनवस्थानमिति चेत्, न; अभेदनिश्चयवत्.स्वत एव तस्य युक्ततया अवस्थानात् । हेतुरूपप्रतिपादनव्याजेन पुनरपि तद्व्यापारं दर्शयन्नाह-'अविनाभावनिश्चयात्' इति । स्पष्टमिदम् । अत्रहेतुरिति विभक्तिपरिणामेन सम्बन्धः । स्यान्मतम्-तन्निश्चयस्यापि तदुत्पत्त्यादिनिश्चयादेव भावात् तत एव हेतुरिति वक्तव्यमिति; तन्न, एवमतिप्रसङ्गात् । यथैव हि धूमादेविशेषधर्मैः कण्ठाक्षविकारकारिभिर्गमकत्वं तथा सामान्यधर्मेरपि मूर्तत्वादिभिर्भवेत् तैरपि तस्याग्न्यादिकार्यत्वात्, तथा च २५ किं तद्विशेषावधारणार्थेन प्रयत्नेन ? यत इदं सूक्तम्-"इष्टं विरुद्धकार्येऽपि देशकालाद्यपेक्षणम् ।" [प्र०वा०३।५ ] इति । विशेषरूपैरेव गमकत्वं तत्रैवाव्यभिचारनियमादतो न व्यर्थस्तदवधारणार्थो यत्न इति चेत्, न; तन्नियमस्यापि कार्यत्वादेव भावात् तस्य च रूपान्तरेप्वप्य
१ तद्वत्तुल्यं प० । २ -येपि प- आ०, ब०, प० । ३ -तया व्यव- आ०, प० । ४ तदनिप्रा०, ब०,प० ।