________________
.१८८
१०
न्यायविनिश्चयविवरणे
[२।१६३-६४ र्येण च' इति । तच्च सूत्रे पूर्वग्रहणादवगतम् , तस्य व्यवहितत्वेऽपि प्रवृत्तिदर्शनेन तत्परिग्रहार्थत्वात्, अन्यथा ‘मतिनिमित्तम्' इत्येव सूत्रे वार्ति के च कृतं भवेत् । बहुविधत्वं च तर्कश्रुतस्य कचिदेकत्रैव साधनधर्मे तत्सामान्यस्य साध्यसामान्येन पुनः क्षयोपशमवशात्तद्विशेषग्रहणे तस्य साध्यविशेषेण पुनस्ततोऽपि सूक्ष्मस्य तद्विशेषस्यावधारणे तस्यापि तादृशेन तद्विशेषेण अविनाभावनिर्णयात् । ५ यदपेक्षयेदं बौद्धेनोक्तम्- "सर्वाकारानुमानं यत् प्रत्यक्षात् तन्न भिद्यते ॥" [प्र० वार्तिकाल०
१।१३८] इति । तथा देशादिव्यवहितस्य शब्दकृतकत्वादिधर्मिहेतुकलापस्यापि तत एव प्रतिपत्तेः ऊहापोहरूपत्वाच्च प्रतिपत्तव्यम् । ततो न तस्य प्रमाणान्तरत्वं परोक्ष एवान्तर्भावात् । बहुभेदत्वमेव तस्य दर्शयितुं तद्व्यापारानाह
अर्थमात्रावबोधेऽपि यतो नर्ते प्रवर्तनम् ॥१६॥
स युक्तो निश्चयो मुख्यं प्रमाणं [तदनक्षवत्] । इति ।
अर्थस्य नीलादेः मात्रा निरंशक्षणिकाद्यवस्था तस्या अवबोधः निर्विकल्पदर्शनम्, तस्मि. नपि न केवलं तदभावे स प्रसिद्धो निश्चयो नीलादिव्यवसायो युक्तः उपपन्नः । किम् ? प्रमाणम् । कथम् ? मुख्यं नौपचारिकम् । कुत एतत् ? यतो यस्मान्निश्चयात् ऋते न प्रवर्तनं जलादौ
तदर्थिन इति। एतदुक्तं भवति-प्रवर्तकमेव प्रमाणं परस्याप्यभिमतम्, “थीप्रमाणता, प्रवृत्तेस्तत्प्रधा१५ नत्वात् ।" [प्र० वा० ११५] इति वचनात् । प्रवृत्तिश्च निश्चयादेव न तदवबोधनात् क्षणक्ष
यादिवत् । अतः स एव मुख्यं प्रमाणम् । तथा च "कल्पनापोढम्॥ [प्र० समु० श्लो० ३) इति प्रत्यक्षलक्षणमसम्भवदोषं निश्चये तदभावात्,निर्विकल्पस्य मुख्यतः प्रामाण्याभावात् । एतदेवाह-'तदनक्षवत्' इति । तदिति निपातः स इत्यत्रार्थे । सोऽर्थमात्रावबोधः अक्षादन्यत्वात् सन्निकर्षादिरनक्षं तद्व
दिति । एतदुक्तं भवति-यथा सन्निकर्षादः मुख्यप्रामाण्याभावाद् न तत्र तल्लक्षणं तथा तदवबोधेऽपीति । २० कदा पुनर्निश्चयात् प्रवर्तनम् ? अभ्यास इति चेत्, न तदा दर्शनादेव तद्भावान्न निश्चयात्, तस्यैवा
भावात् । नानभ्यासे, तदाप्यनुमानादेव तद्भावादिति चेत्; कथं तर्हि "गृहीतग्रहणान्नेष्टं सांवतम्' [प्र० वा० १।५] इत्यनेन तस्याप्रामाण्यमुक्तम् ? क्वचिदप्यसतस्तदयोगात् । तदयं तमेव नेच्छति तस्याप्रामाण्यं च वक्तीति कथमनुन्मत्तः ? भवतु तर्हि तस्य गृहीतग्रहणादेवाप्रामाण्यमिति चेत; किं पुनः
सामान्यं दर्शनविषयो येनैवं स्यात् ? सत्यम् , दृश्यविकल्प्ययोरेकत्वाध्यवसायादिति चेत्; वस्तुतस्तर्हि २५ अपूर्वार्थ एव स इति कथन्न प्रमाणम् ? तद्विषयस्य सामान्यस्यावस्तुत्वादिति चेत्; एवं तर्हि वक्त
व्यम्-‘अवस्तुविषयत्वं न प्रमाणम्' इति, न पुनरेवं 'गृहीतग्रहणात्' इति हेतोरसिद्धिदोषात् । एकत्वाध्यवसायान्नासिद्धिरिति चेत्, न; एकत्वादवस्तुभूताद्वस्तुतो गृहीतग्राहित्वासम्भवात् । तदपि तादृशमेवेति चेत्; वस्तुतस्तर्हि नासिद्धिदोषः परिहृत इति न किञ्चिदेतत् । अस्तु तस्यावस्तुविषयत्वादेवाप्रामाण्यमिति चेत्, न; अनुमानेऽपि तत्प्रसङ्गः । समारोपव्यवच्छेदादेः प्रयोजनविशेषस्य ततो भावादिति चेत्;
१ अत एवं प्रा०, ब०,१०।२ तथा आ०,ब०, प०३ नाप्यन- आ०, ब०प०। ४ परिगृहीत आ०, ब०, प०१५ अनुमानतः ।