________________
२।१६२-६३ ]
२ अनुमानप्रस्तावः
सहदृष्टैश्च धर्मैस्तं न विना तस्य सम्भवः ॥ १६९ ॥ इति ।
तस्य अविनाभावस्य सम्भवः । कैः ? सहयुगपद्ष्टैर्धर्मैः साध्यस्वभावैः रूपादिभिः रसादीनां चशब्दात् क्रमदृष्टैरपि शकटोदयादिभिः कृत्तिकोदयादीनाम् । स किम् ? तं न विना तर्कमन्तरेण न अवधार्यते इति गतेन सम्बन्धः । सहक्रमदर्शनस्य तदभावेऽपि सम्भवात् न ततस्तदवधारणमिति भावः । तर्कस्य यदि न स्वविषये प्रतिबन्धः कथं प्रामाण्यम् ? प्रत्यक्षस्यापि तत ५ एव तद्भावात् । प्रतिबन्धे वा सोऽप्यनुमानमेव तन्निर्णयादुत्पत्तेः प्रसिद्धानुमानवत् तत्कथं तस्य प्रमाणान्तरत्वमिति चेत् ? अत्राह
इति तर्कमपेक्षेत नियमेनैव लैङ्गिकम् । इति ।
१८७
"
इत्येवं तर्कमेव एवकारस्यात्र सम्बन्धात् नापरं तस्य प्रतिबन्धाविषयत्वाद् अपेक्षेत किम् ? लैङ्गिकम् अनुमाननंं लिङ्गादागतत्वात् कथमपेक्षेत ? नियमेन अवश्यम्भावेन । तदनपेक्षत्वे १० तदनुत्पत्तेः । ततो न स लैङ्गिकं तत्कारणत्वात् । कार्याच्च कारणस्यार्थान्तरत्वात् । अनर्थान्तरमेव ततस्तल्लैङ्गिकमिति चेत्; न; तस्यापि प्रतिबन्धनिर्णयकृतस्तर्कादेवोत्पत्तेः अन्यतस्तन्निर्णयस्यासम्भवात् । सोऽपि ततो ऽपरं लैङ्गिकमेवेति चेत्; न; अनवस्थाप्रसङ्गेन लैङ्गिकवार्ताया अपि विलोपनात् । ततो न तस्य लैङ्गिकत्वम् । प्रतिबन्धे कथमतत्त्वमिति चेत् ? प्रत्यक्षेऽपि कथम् ? निर्णय निरपेक्षत्वादिति चेत्; समानमिदं तर्केऽपि । कस्तर्हि तस्य स्वविषये प्रतिबन्ध इति चेत् ? योग्यतयैव प्रत्यक्षवत् । १५ प्रत्यक्षेऽपि प्रतिबन्धान्तरस्य तदुत्पत्त्यादेर्निषेधात् । ततो योग्यतयैव प्रमाणं तर्कः । तदेवाह1 तस्माद्वस्तुवलादेव प्रमाणं [ मतिपूर्वकम् ] ॥ १६२ ॥ इति । तस्मात्तदभावे लैङ्गिकस्यासम्भवात् प्रमाणं तर्क इति विभक्तिपरिणामेन सम्बन्धः । स्वतो वस्त्वेव न कल्पितं यद्बलं योग्यतालक्षणं तस्मादेव न तदुत्पत्त्यादेः ।
यद्येवं भवतोऽपि तत्तृतीयं प्रमाणं प्राप्त प्रत्यक्षवत् परोक्षेऽप्यनन्तर्भावादिति चेत्; आह- २० मतिपूर्वकम् ॥
बहुभेदं श्रुतं साक्षात् पारम्पर्येण चेष्यते ।
श्रुतमित्यस्पष्टज्ञानमुच्यते “श्रुतमस्पष्ट तर्कणम्" [त० श्लो० १ २० ] इति वचनात् । अस्पष्टं परोक्षमेव । ततः श्रुतमिष्यते तर्क इत्यर्थः । मतिपूर्वकमित्यस्पष्टज्ञानस्य श्रुतव्यपदेशे' निमित्तमुक्तम् ‘मतिपूर्वं श्रुत्म्' इति, स्मृत्यादौ अस्पष्टज्ञान एव तद्द्व्यपदेशस्य सूत्रे कृतत्वात् । मँतिश्चे- २५ यमवग्रहादिधारणापर्यन्तंज्ञानमुच्यते " तन्मतिज्ञानं चतुर्विधम् " [ लघी० श्लो० ६ ] इति वचनात् । सा पूर्वं कारणं यस्य तत्तथोक्त ं श्रुतमिति । तथापि न तर्कस्य श्रुतत्वम् । मतेः स्मृत्यादिना तस्य व्यवधानादिति चेत्; न;साक्षादिव परम्परयापि तत्पूर्वस्य तेंदुपगमात् । अत एवोक्तम्- 'साक्षात् पारम्प
१ - देशनि - आ०, ब०, प० । २ - ज्ञानमेव आ०, ब०, प० । ३ "श्रुतं मतिपूर्वं यनेकद्वादशभेदम्" - त० सू० १।२० इत्यत्र । ४ मतिश्चेहावग्र- ता० । ५ तं ज्ञान - आ०, ब०, प० । ६ श्रुतत्वापगमात् ।