________________
१०
१८६
२०
न्यायविनिश्चयविवरणे
कल्पितोऽपि क्षणक्षीणे वस्तुन्येव स सम्भवी । तस्य प्रत्यक्षतः सिद्धेर्न नित्यादौ विपर्ययात् ॥ १५१० ॥ इत्यप्ययुक्तं प्रत्यक्षात्तस्याप्यप्रतिपत्तितः । जात्यन्तरगतत्वेन तस्य पूर्वं निवेदनात् ॥१५११॥ ततः साधारणात्मापि प्रतिबन्धोऽस्तु तात्त्विकः ।
[ २।१६०-६१
प्रमाणमनुमानं हि नान्यथा स्यात्तदुद्भवम् ॥१५१२॥ तस्य च तदेवाधिगतिर्न प्रत्यक्षात् । तस्याऽतद्विषयत्वे वा कस्यायं व्यापारः स्यात् ?
“अग्निस्वभावः शक्रस्य मूर्द्धा यद्यग्निरेव सः । अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ? ॥ धूमहेतुस्वभावो हि वह्निस्तच्छक्ति भेदवान् ।
अधूमधूमस्य भावे स स्यादहेतुकः ।। " [प्र० वा० ३।३५-३६] इत्यादि ।
प्रत्यक्षस्यैवेति चेत्; न; तस्याविकल्पस्यास्यैवं परामर्शसम्भवात् । तज्जन्मनो विकल्पस्येति
चेत्; तथापि किमर्थं तन्निरूपणम् ? प्रतिबन्धस्यैव निर्णयार्थम्, प्रत्यक्षप्रतिपन्नस्यापि तस्यानिर्णी - तस्य पुरुषार्थं प्रत्यनुपयोगादिति चेत्; विकल्पस्यापि तर्हि कथं तन्निर्णयं प्रत्युपयोगः । न हि तस्यापि स्वतः १५ परतो वा निर्णय इति । अभिहितञ्चैतत् - अनिर्णीतोऽपि स तत्रोपयुज्यते दृष्टत्वात् एवं न प्रतिबन्धः ' इति । किं कृतमेतत् ? समारोपभावाभावकृतमिति चेत्; तर्हि प्रतिबन्धे प्रतिबन्धसमारोपनिवारणार्थं तन्निरूपणमिति कथं तद्द्व्यापारवान् विकल्पो न प्रमाणम् ? अप्रमाणात्तन्निवारणायोगादनुमानवत् । एतदेवाह -
सत्यप्यन्वयविज्ञाने स तर्कपरिनिष्ठितः ॥ १६०॥ अविनाभावसम्बन्धः साकल्येनावधार्यते । इति ।
1
अन्वयः प्रतिबन्धस्तस्य विज्ञानं प्रत्यक्षं तस्यैव परैरिष्टस्तस्मिन् । कथम्भूते ? साकल्येन देशकालान्तरवर्तिसाध्यसाधनव्यक्तिसामस्त्येन अन्यथा सतोऽपि तस्यानुपयोगात् । सत्यपि विद्यमानेऽपि अपिशब्दः सम्भावनायां तत्त्वतः तदभावात्, अन्यथा प्राणिमात्रस्यापि सुगताविशेषेणानुमानवैफल्यप्रसङ्गात् । स प्रसिद्धः स वा पात्रकेसरिस्वामिना निरूपितः अविनाभाव एव २५ सम्बन्धो हेतुसाध्ययोर्न तादात्म्यादिस्तस्या व्यापकत्वात् । अवधार्यते निश्चीयते । कीदृशः
तर्केण परितो नारोषयता निष्ठितो लब्धप्रतिष्ठः तर्कपरिनिष्ठितः इति । साकल्येनेत्यत्रापि वक्तव्यं तथा च 'किमन्वयविज्ञानेन सत्यपि तस्मिन् तर्कप्रामाण्यस्याशक्य प्रतिक्षेपत्वात् अन्यथा समारोषस्याव्यवच्छेदात् । ततः स एव प्रतिबन्धे प्रमाणयितव्यः परस्यापि " अग्निस्वभावः " [ प्र० वा० ३।३५ ] इत्यादि ब्रुवाणस्य प्रसिद्धत्वान्न तद्विज्ञाने विप्रतिपत्तिरिति मन्यते । पुनरपि तर्कस्यैव ३० प्रामाण्यं दृढयन्नाह -
१ किमन्वयिवि - प० ।