________________
२।१५९-६० ]
२ अनुमानप्रस्तावः
अन्यथाऽनुपपन्नत्वमतः किन्न प्रतीयते । इति ।
अत एतस्मात् प्रत्यक्षादनुपलम्भाच्च अन्यथाऽनुपन्नत्वं साध्याविनाभावित्वं हेतोः किन्न प्रतीयते १ प्रतीयत एव । तात्पर्यमत्र न तावत्प्रत्यक्षं धूमस्यान्यतो भावमव्यवच्छिन्दद् अनलात्तदुत्पत्तिमत्रगन्तुमर्हति । परतोऽपि तदाशङ्कायां तत एवेति नियमायोगात् । ततो दृश्यमानः कथमन्यतोऽप्याशङ्क्यतेति चेत् ? अस्ति तर्हि ततोऽन्यथा ऽनुपपत्तिपरिज्ञानं तद्व्यवच्छेदपरिज्ञानस्यैव ५ तत्परिज्ञानत्वात् । तथा च तावतैवानुमान निष्पत्तेर्व्यर्थं तदर्थं तत्रानलप्रभवत्वपरिज्ञानम् । तेन शिंशपादौ साध्यतादात्म्यपरिज्ञानमपि चिन्तितम् । तत्राप्यतत्तादात्म्यव्यवच्छेदप्रतिपत्तित एव अनुमानोषषत्तेः । मा भूद् व्यवच्छेदज्ञानादन्यत्रानुमानम्, तत्र तु तत्कथं यावन्न तत्प्रतिबन्धज्ञानमिति चेत् ? न; तज्ज्ञानस्यैव प्रतिबन्धज्ञानत्वात्, न तदुत्वस्यादिज्ञानम्य, तस्य सतोऽपि व्यवच्छेदप्रधानतयै वानुमापकत्वात्, अन्यथा व्यभिचारशङ्काऽनिवृत्तेः व्यवच्छेदज्ञानस्य तु विनापि तेनेति निवेदयिष्यते इति । १० अपि च, प्रतिबन्धो यद्यसाधारण:; न तस्मादनुमानम् । यत्र तत्सिद्धिः प्रत्यक्षात् साध्यस्यापि तत्र तत एव सिद्धेः, अन्यत्र चाविद्यमानत्वात् । साधारणश्चेत्; न तर्हि स विषयः प्रत्यक्षस्य स्यात्, तस्य स्वलक्षण एव नियमात् । अतः प्रमाणान्तरस्यैव विषयो वक्तव्यः । तदेवाह -
प्रमाण साधनोपायः प्रमाणान्तरगोचरः ॥ १५६ ॥ व्याप्यव्यापकभावोऽयमेकत्रापि विभाव्यते । इति ।
१८५
कल्पितात्प्रतिबन्धाच्चेत् क्षणभङ्गानुमोदयः । .
तत एव भवेत् किन्न नित्यत्वाद्यनुमोदयः १ ॥ १५०९ ॥
व्याप्यव्यापकभावः साध्यसाधनयोरविनाभावः अयं विचार्यमाणो विभाव्यते निश्चीयते । कस्मिन् ? एकत्र एकस्मिन् महानसादौ, न केवलं सर्वत्रेत्यपिशब्दः । एकत्रापि कीदृशः स विभाव्यते ? प्रमाणान्तरस्य प्रत्यक्षानुमानाभ्यामन्यस्य तर्काभिधानस्य प्रमाणस्य गोचरो विषयः । कुतस्तगोचर एव स विभाव्यते नापर इति चेत् ? न; प्रमाणसाधनोपायत्वात् । इष्टं हि तस्य अनुमानप्रमाणनिष्पत्त्युपायत्वम् । तच्च तद्गोचरस्यैव नातद्गोचरस्य । अपरिज्ञातस्य तदुपायत्वे अतिप्रसङ्गात् - २० नालिकेरद्वीषादागतस्यापि धूमादेः पावकादिप्रतिपत्त्यापत्तेः । नाप्यन्यगोचरस्यः तत्त्वस्यैवाभावात् । • प्रतिविहितं हि तस्यानुमानगोचरत्वम् अनवस्थापरस्पराश्रयाभ्याम्) प्रत्यक्षविषयत्वञ्च साधारणत्वात् । न कश्चित्तात्त्विकः साधारणाकारः सम्भवति प्रत्यक्षेऽपि तत्प्रतिभासप्रसङ्गात्, अन्यथाऽन्यत्रापि तदनुपपत्तेः, तस्य तद्बलभावित्वात् । ततो विशेषस्यैव साधारणत्वं तस्यैव प्रत्यक्षविषयस्य विकल्पज्ञाने व्यक्त्यन्तरसाधारणतया प्रत्यवभासनात् । ततो गृहीतग्रहणात्तद्विषयस्य तर्कविकल्पस्य प्रामाण्यमेव दुरुपषादं २५ तत्कथं तदन्तरत्वं यतस्तगोचर इत्युच्यत इति चेत् ? न; एवं तस्य प्रमाणसाधनोपायत्वव्यापत्तेः । न हि तस्य विशेषणरूपेणैव प्रत्यक्षावभासिना तदुषातत्वम्; तस्य पर्वतधूमादौ अभावात् । नापि विकल्पितेन; तस्य तत्र भावेऽपि ततः प्रमाणस्यानुत्पत्तेः । तथा हि
१ श्रग्नेः । २ प्रमाणान्तरत्वम् ।
२४
१५
०