________________
१८४
__ १८४ न्यायविनिश्चयविवरण
[२॥१५८ कल्पितप्रभवाधीनं क्षणिकाद्यनुमानवत् । नित्यत्वाद्यनुमानं च तदाभासि भवेत् कथम् ॥१४९९॥ तद्वद्वा पूर्वकस्यापि तदाभासत्वसम्भवात् ।
अनुमानतदाभासभेदोऽयं सुलभः कथम् ॥१५००॥ न केवलं तयोरेव प्रतिव्यढोऽपि तु प्रत्यक्षे स्पष्टवेदने अर्थे तद्विषये च, अर्थतत्प्रत्यक्षयोरपीत्यर्थः । अत्र 'तेनैव' इति निर्विकल्पेतरभेदानवस्थानेनेति व्याख्येयम् । तथा हि
प्रत्यक्षं निर्विकल्पं चेत् कल्पितादर्थजन्मनः । सविकल्पकमप्येवं तत एव कथन्न तत् ॥१५०१॥ नास्त्यर्थः सविकल्पश्चेन्निर्विकल्पोऽस्त्यसौ कथम् ? प्रत्यक्षात्तत्प्रतीतेश्चेद्विकल्पमलवर्जितात् ॥१५०२।। नाविकल्पात्ततः सिद्धात् सिद्धयत्यर्थोऽविकल्पकः । तस्माच्च सिद्धात्तत्सिद्धिरित्यन्योऽन्यसमाश्रयात् ॥१५०३॥ अध्यक्षादन्यतोऽर्थश्चेदविकल्पः प्रसिद्धिमान् । अन्यस्याप्यविकल्पत्वे कथं नाध्यक्षमेव तत् ॥१५०४॥ विकल्पत्वे कयं तस्मादविकरुपार्थवेदनम् । विकल्पोऽवस्तुनिर्भासी यतो वः स मतोऽखिलः ॥१४०५॥ कल्पनातः सतोऽप्यर्थात् प्रत्यक्षं यद्यकल्प कम् । सविकल्पकमेवातस्तन्न कस्मान्निगद्यते ॥१५०६॥ लोकस्य यत्तदेवेष्टं प्रत्यक्षमविगानतः । न लोकातिक्रमी युक्तस्तत्कल्पो लोकमिच्छताम् ॥१५०७॥ ततोऽर्थजन्मनः क्लप्तात् प्रत्यक्षं निर्विकल्पकम् ।
विकल्पकमुतेत्येवं भेदोऽयं दुर्विनिश्चयः ॥१५०८॥ तस्मात्तभेदनिश्चयमभ्युपगच्छता तत्त्वत एवार्थज्ञानयोरनलधूमादेश्च प्रभवोऽयमभ्युषगन्तव्यः । एवमेव तत् प्रमाणतः प्रत्यक्षादेव तत्पतिपत्तेः । एतदेव दर्शयति
प्रत्यक्षानुपलम्भाभ्यां यदि तत्त्वं प्रतीयते ॥१५८॥ इति ।
तत्त्वमनलधूमयोहेतुफलभावः प्रतीयते प्रत्यक्षादेव अनुपलम्भसहायात् अनुपलम्भाद्वा प्रत्यक्षसहायात्, ततस्तात्त्विक एवायम् । दृश्यते हि प्रागनलाभावेऽनुपलब्धो धूमः, तद्भावे दृष्टोऽपि तद्भावे पुनर्न दृश्यते च तदभावे, तस्मात् स तस्यैव कार्यम् अकार्यस्य ततः सकृदप्यसम्भवादिति भावः । परस्य तत्रोत्तरमाह
१ एवमेतत् आ०, ब०, प० । २ तदभावे आ०, ब०, प० । 'तद्भावे' इति पदं व्यर्थम् । ३ अकारणस्य आग, ब०, प०।