________________
२।१५८ ] २ अनुमानप्रस्तावः
१८३ प्रत्येति 'हेतम्' इति गतेन सम्बन्धः । ग्रहणं किंविशिष्टम् ? निःशङ्क शङ्काया निष्क्रान्तम् । उपलक्षणमिदं तेन निविपर्ययमपि । कदा न गृह्णाति ? अन्यथासम्भवे साध्याविनाभावे हेतोरज्ञाने अविद्यमानपरिच्छेदे सति । केन कारणेन तदापि सा न तं गृह्णातीति चेत् ? नियमेन नियमः तदा सैव नास्तीति योगः तेन । न तत्परिज्ञानजन्मा तद्धीस्तदभावे भवति, अभवन्ती च कथं गृह्णीयात्, सत्येव धर्मिणि तद्धर्मोपपत्तेः ? सत्येव तस्मिन् तज्ज्ञाने सा तं गृह्णातीति चेत्; अत्राह-नियमेन' इत्यादि । ५ चतुरस्रघोःन हेतुं निःशङ्कगृह्णाति । कदा ? अन्यथासम्भवे यज्ज्ञानं तस्मिन् सति । केन ? नियमेन । यम उपरमस्तस्याभावो नियम निशितवत्, तेन । चतुरस्रधिय इति विभक्तिपरिणामेन सम्बन्धः । तात्पर्यमत्र-यतस्ते तज्ज्ञानात्तद्धीः, तद्यदि तत एव परस्पराश्रयः-सत्यां तस्यां तज्ज्ञानं तस्मिंश्च तद्धीरिति । अन्यतस्तद्धिय इति चेत्, आगतस्तर्हि तदनुपरमः तन्निमित्तस्यापि ज्ञानस्यान्यतस्तद्धियो भावात्, पुनस्तन्निमित्तस्यापि तज्ज्ञानस्येत्येवं कचिदप्यवस्थानात् । तन्नानुमानमपि हेतु प्रत्येति । १०
मा भूत् प्रमाणतदाभासादिभेदः स्वयमप्यलङ्कारकृता तन्निरासस्थेष्टत्वात्, अविचारितरम्यया कल्पनयैव तदुपगमात्, तत्त्वतस्तु संविदद्वैतमेव तस्य तत्त्वम्, तस्य च प्रमाणेतरविकल्पातिपातिनः स्वसंवेदनादेव प्रतिपत्तिरिति चेत्, अत्राह-'ह्यर्थश्चात्मव्यवस्थितः' इति । हि स्फुटम् अर्थश्च न केवलं तदेव ज्ञानम् आत्मना स्वभावेन न. कल्पनया व्यवस्थितः तत्कथमद्वैतम् ? अर्थव्यवस्थितौ द्वैतस्यैवोपपत्तेरिति भावः । कुतस्तद्वयवस्थितिरिति चेत् ! ज्ञानवत्प्रतीतेरेव, इयांस्तु विशेषः १५ स्वतो ज्ञानस्यार्थस्य तु ततः इति । तत इत्यपि कुत इति चेत् ? स्वत इत्यपि कुतः ? तथानुभवात् समानमन्यत्र । तथापि न तद्व्यवस्थितिस्तत्प्रतीतेन्तत्वात् स्वप्नतत्प्रतीतिवदिति चेत्; ज्ञानस्यापि न व्यवस्थितिः, तत्प्रतीतेरपि बाह्यप्रतीतिवद् भ्रान्तत्वात् । प्रतीतित्वेऽपि बाह्यस्यैव प्रतीतिर्धान्ता न ज्ञानस्येति चेत्; अनुकूलमाचरसि-बाह्यवतीतिरपि स्वप्नगतैव भ्रान्ता न परेत्यभिमतसिद्धः । कथं चेदमनुमानमद्वैतवादे ? कथं च न स्यात् ? हेतुजन्मना तेनं हेतुफलभावस्य तद्वादप्रत्यनीकस्यान्वाकर्षणात् । २० नायं दोषः परिकल्पितत्वात्त द्भावस्येति चेत्, तर्हि तन्निबन्धमनुमानमपि कल्पितमेवेति कथं ततः क्वचिद्विभ्रमस्य विधिरविभ्रमवत् ? कथं वा क्षणक्षयादेरेव ततः प्रतीतिर्न नित्यादेरपि यतः संवृत्यापि स एव सन्न नित्यादिरिति व्यवस्था शोभामनुबोभवीति ? तन्न कल्पितस्तद्भाव उपपन्नः । तदाह
प्रतिव्यूढस्तु तेनैव प्रभवोऽनलधूमयोः ॥१५७॥
प्रत्यक्षेऽर्थे प्रमाणेन विकल्पेन प्रकल्पितः । इति ।
प्रतिव्यूढः प्रतिक्षिप्तः तुरिति वितर्के। कः ? प्रभवः कार्यकारणभावः । कयोः ? अनलधमयोः उपलक्षणमिदमन्येषामपि लिङ्गलिङ्गिज्ञानादीनाम् । कीदृशः ? प्रमाणेन विकल्पेन प्रकल्पित इति । सुबोधमेतत् । न चेदमसम्मतमेव परस्य- "निष्पत्तेरपराधीनमपि कार्य स्वहेतुना । सम्बध्यते कल्पनया ।" [प्र० वा० २।२६ ] इत्यभिधानात् । केन प्रतिव्यूढः ? तेनैव प्रागुक्तेनानुमानतदाभासभेदानवस्थितिन्यायेनैव नापरेण । तथा हि
१ तेन विप- आ०, ब०, प० । २ तेन तर्हि प० । तेन नाहित- आ०, ब०।३ -ति न भआ०, ब०,प० । ४ अनुमानेन ।