________________
न्यायविनिश्चयविवरणे
[२।१५५-५६ दिजन्मैव' इतीयतो व्यापारान् कर्तुं समर्थम्; देशकालव्याप्त्या स्वयमप्रवृत्तः, प्राणिमात्रस्यापिसर्वदर्शित्वप्रसङ्गात् । अन्यत्र वृत्तं तत्र करोत्येव तानिति चेत्, न; तत्राप्यपरामर्शरूपत्वात् । किंवा तत्र तत्करणेन ? तत एव साध्यस्यापि सिद्धरेनुमानवैयर्थ्यात् । उक्तञ्चैतत्-"सम्बन्धो यत्र" इत्यादिना । ततः सामस्त्येनैव तत्करणमभ्युपगन्तव्यम् । तच्च ततो न सम्भवति । तदेवाह
प्रत्येति न प्रमा हेतुं [प्रत्येति पुनरममा ] ॥१५५॥ इति ।
प्रमा प्रत्यक्षरूपा तदन्यरूपाया वक्ष्यमाणत्वात, न प्रत्येति न परिच्छिनत्ति हेतुम् उक्तरूपमुक्तादेव न्यायात् । मा सो त प्रतिगात्, तज्जन्मा तु विकल्पः प्रत्येति तद्व्यावृत्तेः परामर्शरूपत्वादिति चेत्, न; तस्यागृहीतग्रहाविसंवादाभ्यां प्रत्यक्षानुमानयोरतल्लक्षणत्वेनानन्तर्भाविनः प्रमा
णान्तरत्वप्रसङ्गात् । अप्रमाणत्वे वा कुतस्ततो हेतुप्रतिपत्ति: ? एतदेवाह-'प्रत्येति पुनरप्रमा' इति । १० नेति हेतुमिति चानुवृत्तम् । पुनरिति । पुनर्भावी विकल्पः पुनः प्रत्येति हेतुम् । कस्माद् अप्रमा प्रमाणं यत इति । मा भूत् प्रमाणात् तस्य प्रतिपत्तिर प्रमाणादेव भवत्विति चेत्; अत्राह -
प्रमाहेतुतदाभासभेदोऽयं सुव्यवस्थितः । इति ।
प्रमा च हेतुश्च तयोराभासौ च प्रमाहेतुतदाभासाः प्रमातदाभासौ हेतुतदाभासौ चेत्यर्थः । तेषां भेदो नानात्वम् अयं प्रतीयमानः सुव्यवस्थितः 'न व्यवस्थितः' इत्यर्थः । उपहसनपरत्वात्तद्व१५ चनस्य । तथा हि
यदि प्रमाणतो हेतुः कुतश्चिन्नावगम्यते । नानुमानं तदा तस्य हेतोरेव समुद्भवात् ॥१४९४॥ तदभावे कथन्नाम तदाभासव्यवस्थितिः । सौगतैरवकल्प्येत प्रत्यक्षात्तदसम्भवात् ॥१४९५॥ अन्यथा तद्व्यवस्थायाः कथं मानान्तरास्तिता । प्रमाणेतरसामान्यस्थितेरित्यादिनोच्यताम् ॥१४९६॥ अप्रमाणाद् गतौ हेतोस्तदात्म्यादिसमन्वयी।। हेतुरन्यस्तदाभासः संयोग्यादिरशेषतः ॥१४९७॥ इति हेतुतदाभासभेदस्यावस्थितिः कथम् ।
प्रमाणादेव तद्युक्तेरन्यथा नियमक्षतेः ॥१४९८॥ भवतु तर्हि प्रमाणादेवानुमानाद्धेतुप्रतिपत्तिरिति चेत्, अत्राहनियमेन न गृह्णाति निःशङ्कं चतुरस्रधीः॥१५६॥
अन्यथाऽसम्भवेऽज्ञाने [ ह्यर्थश्चात्मव्यवस्थितः ] । इति । चतुरस्रधीरनुमानबुद्धिः सकलव्यवहारनिबन्धनत्वेन तस्या एव चतुरस्रतोपपत्तेः न गृह्वाति न १ तानीति आ०,ब०,प० । व्यापारान् । २ न्यायविश्लो० २।२३। ३ प्रत्यक्षप्रमा । ४ हेतुम् ।