________________
२।१५५ ]
२ अनुमानप्रस्तावः
अप्रमाणात् ततस्तस्य ज्ञप्ति कल्पयता त्वया । प्रमाणचिन्तावैयर्थ्यं सर्वत्र स्यात् समर्थितम् ॥ १४८८ ॥ कुतो वा तस्य संवित्तिः कार्यादेर्यत्ततो भवेत् । अविनाभावसंवित्तिरज्ञातात्तदसम्भवात् ॥१४८९॥ अविनाभावतश्चेत् स्यात्तस्यापि प्रतिवेदनम् । प्रत्यक्षादिविकल्पोक्तो दोषः सर्वोऽनुषज्यते ॥१४९० ॥ कार्यादेरविनाभाववित्तिस्तस्याश्च तद्गतिः । इत्यन्योऽन्याश्रयो दोषो दुस्तर: प्रसजत्ययम् ॥ ९४९१॥ प्रत्यक्षात्तस्य संवित्तौ वक्ष्यामो वयमुत्तरम् ।
लिङ्गात्तु तत्परिज्ञानमनवस्थानमुद्वहेत् ॥१४९२ ॥ लिङ्गं तदविनाभावात् कार्यत्वादेश्च तद्गतिः । तस्यापि लिङ्गतोऽन्यस्मादविनाभाविनो गतिः || १४९३ ॥ इति ।
१८१
तन्न तज्ज्ञाप्यत्वात्तत एव स इति युक्तम्, ज्ञाप्यस्य ज्ञापकनियमाभावाच्च । ततो युक्तमन्यथापि हेतुभावात् कार्यादित्रयेण किमिति । एवं पूर्ववदादिना' संयोग्यादिनां वीतादिना च त्रयेण किमिति व्याख्येयम् ? वक्ष्यते चैतत् - 'एतेन' इत्यादिना ।
५.
१०
१ “अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतोदृष्टं च ।” - न्या० सू० १२१२५| २ “संयोगिसमवाय्येकार्थसमवायि विरोधि च ।” वै० सू० ३|१|९| ३ " तत्र प्रथमं तावद्विविधम्वीतमवीतं च ।” - सां० त० कौ० का० ५। ४ न्यायवि० श्लो० ३४२ । ५ अनैकान्तिकः । ६ सम-न्तभद्रस्य सत्त्वादिरचलात्मनि ।” - प्रमाणसं० पृ० ११४ | विरूद्धो मल्लवादिनः । " - जैनतर्कवा ० १४२ । स्या० २० पृ० १०३२ । ७ न्यायवि० श्लो० २।१२६ ।
१५
भवतु नाम यत्रान्यथानुपपन्नत्वं तत्र त्रयेण किमिति, तेनैव पर्याप्तत्वात्, अन्यथापि हेतुभावाद्यत्र नास्ति न तत्र, तत्र त्रैरूप्यस्यैव गमकत्वात् । हेतोश्च त्रिविधस्यैव भावादिति चेत्; न; अन्यथानुपपत्त्यभावे गमकत्वस्यासम्भवात् अतिप्रसङ्गात् । अगमकधर्मणश्च अहेतुत्वात् । एतदेव 'नान्यथा' इत्यादिना दर्शितम् ।'स्वपरप्रसिद्धं चैतद्, अत्र चोदाहरणं सकलमपि क्षणभङ्गाद्येकान्तसाधनं प्रतिषत्तव्यम् । तस्यान्यथानुपपत्तिवैकल्यञ्च यथाप्रतिभासमनेकान्तस्यैव ततः सिद्धेर्विरुद्धत्वात् यथाकल्पनमसिद्धेः इष्टवदितरत्रापि २० भावेन व्यभिचाराच्च । तदुक्तम्
“असिद्ध: सिद्धसेनस्य विरुद्धो देवनन्दिनः ।
द्वेधा' समन्तभद्रस्य हेतुरेकान्तसाधनः ॥” [ सिद्धिवि० परि० ६ ] इति । तस्मादन्यथानुपपन्नत्वादेव हेतुः । सत्यसति च तस्मिन् त्रिरूपत्रैविध्ययोर्वैयर्थ्यात् । कुतस्तर्हि तत्प्रतिपत्तव्यमिति चेत् ? ननु नोक्तमेव वैतत् - " साध्ये सति" इत्यादिना । तावता २५ न परितोषः, वक्ष्यामः । भवतस्तु स्वभावादिरूपस्य हेतोः कुतः प्रतिपत्तिः ? प्रत्यक्षादेवेति चेत्; न; ततः साकल्येन तदसम्भवात् । न हि तत् 'सर्वत्र सर्वदा शिंशपादिः वृक्षादिस्वभाव एव, धूमादिरग्न्या