________________
१८० न्यायविनिश्चयविवरणे
[२।१५५ एव तस्यासाध्यव्यावृत्त्या साध्यनिश्चयकारित्वात् व्यर्थमसत्प्रतिपक्षत्वम् । 'अप्रदर्शितप्रतिहेतुत्वम् असत्प्रतिपक्षत्वम्' इत्यपि न युक्तम् ; प्रज्ञावता पुरुषेण कदाचित् तत्प्रदर्शनस्यापि सम्भवात् । यावत्तदप्रदर्शनं तावत् गमकत्वमेवेति चेत्, स तर्हि हेतु: 'वस्तूनि स्वसाध्यप्रकृतीनि कृत्वा
तत्प्रमाणकान् पुरुषानभ्युदयनिःश्रेयसाभ्यां संयोजयति, पुनश्च प्रतिभावता पुरुषेण प्रतिहेतूपदर्शनेनो५ कीलितसाधनसामर्थ्यः तानि वस्तूनि तांश्च पुरुषान् तद्भावसम्पदः स्वसाध्यप्रकृतित्वसम्पदोऽभ्युदयनिःश्रेयससम्पदश्च प्रच्याव्य भ्रष्टराज्य इव राजा तपोवनं गच्छेत् । कथं वा स्वयमतत्साध्यनियतस्तदुपदर्शनात् प्रागपि तत्र हेतुः ? तत्साध्ये नियते च कथं प्रतिहेतोः सम्भवः प्रदर्शनं वा विरोधात् ? अतो नासत्प्रतिपक्षत्वं हेतुरूपमुपपन्नमिति चेत्, कुत: पुनरेवं ब्रुवतस्तथापि हेतोर्गमकत्वम् ? प्रतिबन्धादेव तादात्यादेरिति चेत्, न; तन्निश्चयस्याप्यशक्यत्वेन वक्ष्यमाणत्वात् । ततो न कश्चिदपि हेतुः, १० तस्यापि सन्दिग्धस्यातल्लक्षणत्वात् । यदप्युक्तम्-तत्साध्यनियते चेत्यादि; तदपि न सङ्गतमा विनाश
नियतेऽपि तद्भाव प्रत्यनपेक्षणे परिणामसाधनतया तस्यैव प्रतिहेतोः सम्भवात् । प्रतिपादितं चैतत् "परिणामस्वभावः स्यात्" इत्यादिना । अभिप्रेतं च विनाशनियतत्वं तस्य स्वयं ततस्तत्साधनात् । ततो 'नातन्निश्चयमात्रादेव प्रतिहेत्वभावाभाव इति पृथगेवासौ तल्लक्षणतया वक्तव्यः इत्युपपन्नम्अन्यथानुपपन्नत्वादिभिश्चतुर्भिः पक्षधर्मत्वादिभिश्च सप्तलक्षणो हेतुरिति त्रयेणेति किम् इति ।
____ अथवा त्रयेण कार्यस्वभावानुपलम्भरूपेणेति व्याख्येयम् । न हि तेनापि किञ्चित्, रूपान्तरेणापि हेतोर्भावात् । कार्यादिरूपादेवाविनाभावः।
"कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमो दर्शनान्न न दर्शनात् ॥ [प्र० वा० ३।३०] इति वचनात्, तदभावे कथमविनाभावो यतो रूपान्तरेणापि हेतुत्वमिति चेत् ? कुतः पुनरिदं तत एव न तद्भाव २० ( तदभाव ) इति ? न तावत्तद्रूपत्वात्; रसादिकृत्तिकोदयादेः रूपादिशकटोदयादिसाधनस्य तदभावेऽपि
तद्भावात् । न हि तादृशस्य ताद्रूप्यम् ; अतिप्रसङ्गात् । वक्ष्यते चैतत्-"तुलोन्नाम" इत्यादिना । नापि तज्ज्ञाप्यत्वात्; तत्र तदभावेऽपि तज्ज्ञप्तर्भावात् । अपि च ,
प्रत्यक्षत्वेन तत्तस्य ज्ञापकं नोपपत्तिमत् । . अज्ञत्वात् पञ्चमस्यापि प्रत्यक्षस्य प्रसङ्गतः ॥१४८४॥ लिङ्गत्वाच्चेत् परस्तत्राविनाभावः प्रकल्प्यताम् । तस्यापि ज्ञप्तिरन्यस्मात् कार्यत्वादेस्ततो भवेत् ॥१४८५।। एवं सत्यनवस्थानात् व तज्ज्ञप्तिः प्रकल्प्यताम् । लभ्यतेऽनुमितिर्यस्याः क्षणभङ्गादिसाधनी ॥१४८६॥ प्रमाणान्तरभावेन ततस्तज्ज्ञप्तिकल्पनम् ।
तव पथ्यं न वेत्येवं भवतैवावधार्यताम् ॥१४८७॥ १ वस्तुनि आ०,ब०,१० । २ हेतुरस्यापि आ०,ब०,प० । ३ न्यायविश्लो० २।१३३। ४ न तन्नि-आ०, ब०, प०।५-त्वभाव इति आ०, ब०, प०।६न्यायवि० इलो०३३८ ।