________________
२।१५५ ]
२ अनुमानप्रस्तावः
१७९
निवृत्तिः, अनुपलब्धिर्वा भवेत् ? निवृत्त्यापि साध्याभावस्य निवर्तने व्यर्थो हेतुः तावता साध्य - सिद्धेः, अभावनिवर्तनस्य भावविधानरूपत्वात् । अनिवर्तने तु न तन्निवृत्तिः तल्लक्षणं तदनिवर्तनात् तत्प्रवृत्तिवत् । तन्न तस्य निवृत्तिरबाधितत्वम् । अनुपलब्धिस्तदिति चेत्; ततोऽपि यदि बाधकस्य निवृत्तिप्रसङ्गः पूर्ववत् । संशयश्चेत्; सिद्धः सत्यपि बाधके हेतुप्रयोगः, संशये पाक्षिकस्य तस्य भावात्, अन्यथा तदसम्भवात् । तन्न तदनुपलब्धिरप्यबाधितत्वं तद्रूपम् । तदुपलब्धावप्येवं ५ तत्प्रयोगस्यानिवारणात् बाधोषगमस्येतरत्राप्यविशेषादिति चेत्; कथमेवमविनाभावो ऽपि हेतुलक्षणम् ? कथं च न स्यात् ? उच्यते - स हि तावन्न साध्याननुपातिनो निश्चयस्य विषयः; तदपेक्षत्वात् । तदनुपातित्वे तु निश्चयस्य व्यर्थो हेतुस्तत एव साध्यसिद्धेः । स्यादयं प्रसङ्गो यदि धर्मिण्येव तन्निश्चयो न चैवं दृष्टान्ते तदुपगमादिति चेत्; धर्मिण्येव कुतो न तन्निश्चयः ? तत्र साध्याभावेऽपि हेतुसम्भवात्; न तर्हि तत्र ततः साध्यसिद्धिः, 'सत्यपि साध्ये शक्त्यभावादिति चेत्, १० कथं तहींदर्मेर्चटेनोक्तम्–“तस्मात् स्वसाध्यप्रतिबन्धाद्धेतुस्तेन व्याप्तः सिद्धयति, स च विपर्यये बाधकप्रमाणवृत्त्या साध्यधर्मिण्यपि सिद्ध्यतीति न किञ्चिदन्यत्रानुवृत्यपेक्षया ।" [ हेतुबि० टी० पृ०२५ ] इति ? सत्यामपि तत्र तन्निश्चयेन साध्यसिद्धौ न भवत्येव हेतोः प्रयोगः । समारोपव्यवच्छेदार्थ इति चेत्; न; निश्चिते समारोपाभावात्; अन्यथा बाधाविरहनिर्णयादपि तत्सिद्धौ तदर्थ एव तत्प्रयोगः स्यादिति न युक्तमेतत् हेतुबिन्दायुक्तम्- ' ' तत्किमिदानीं हेतोः सामर्थ्यम- १५ बाधयैव साध्यसिद्धेः ।" [ हेतुबि० पृ०२०८ ] इति । तस्मादबाधितविषयत्वमपि रूपमेव हेतोरविनाभाववत् । तदभावे को दोषो येन तदपि तस्य रूपं परिकल्प्येत ? बाधितविषयस्यापि हेतुत्वं प्रसज्येतेति चेत्; न; सत्यविनाभावे तद्विषयत्वस्यैवासम्भवात् । सम्भवे तेन साध्यस्य निषेधो ऽपि विधिश्वाविनाभावेनेति दुस्तरमेव दौस्थ्यं तस्यापद्येतेति चेत्; उच्यते- पक्षधर्मत्वादेरप्यभावे किं भवेत् यतस्तस्य तद्रूपत्वकल्पनम् ? अपक्षधर्मत्वादेरपि हेतुत्वं प्राप्नोतीति चेत्, न असत्यविनाभावे २० तदसम्भवात् । सत्येवेति चेत्; तथापि कथं तस्थाहेतुत्वम् ? त्रैरूप्याभावादिति चेत्; तदेव दौस्थ्यं तत्राप्यापतितं तदभावादहेतुत्वम् अविनाभावाच्च विपर्यय इति । अविनाभावोऽपि तदभावे नास्त्येव तस्य तत्रैव नियमादिति चेत्; न; तस्य निषेधात् । ततो न त्रैरूप्यस्यापि कल्पनमर्थवत् व्यवच्छेद्याभावात् । सम्भवमात्रेण तु कल्पनम् अबाधि [त] विषयत्वेऽपि, सर्वत्र सम्भवेन ततस्तस्य विशेषाच्च ।
एवमसत्प्रतिपक्षत्वमपि रूपान्तरम् । किं पुनरिदमसत्प्रतिपक्षत्वम् ? असम्भवत्प्रतिहेतुत्वमिति चेत्; कुतस्तन्निश्चयः ? प्रतिहेतोरदर्शनात्; न; दर्शनेन भावस्याव्याप्तौ अदर्शनादभावनिश्चयस्यानुपपत्तेः । न च दृष्टप्रतिहेतुसदृशे ततस्तन्निश्चयः, संशयस्यैव सम्भवात् तत्रैवात्रापि किं भवति प्रतिहेतुः किं वा न वेति । तद्विलक्षण इति चेत्; तदेव तर्हि वैलक्षण्यं स्वलक्षणमस्तु हेतोः, तत
१ तस्यापि आ०, ब०, प० । २ - मर्चतेनो- ०, ब०, प० । ३ - मन्त्राधवि - आ०, ब०, प० ।
२५