________________
१७८
न्यायविनिश्चयविवरणे
3
[२] १५५* नुपपन्नत्वं गमकत्वनिबन्धनमत्रान्यत्र च । ततो युक्तं तत्रेत्यादि । ननु यत्र सम्भवस्तत्र तदपि लक्षणमेव, तत्संहितस्यैवान्यथानुपपन्नत्वस्यापि गमकत्वादिति चेत्; न सम्भवमात्रेण तल्लक्षणत्वे धूमादौ पाण्डिमादेरपि तत्प्रसङ्गात् । तस्याऽहेतावपि भावान्नेति चेत्; समानं पक्षधर्मत्वादावपि, हेत्वाभासेषु तस्यापि भावात् । समुदितमेव तत्तस्य लक्षणं तच्च नान्यत्रेति चेत्; न; असर्वज्ञा वचनादौ तस्यापि भावात् । निश्चितान्वयव्यतिरेकौ न तत्रेति चेत्, न कृतकत्वादावपि भव निवेदनात् । तन्न सम्भवमात्रेण तस्य तल्लक्षणत्वम् । अथवा, ' त्रयेण' इत्यत्र इतिशब्दो द्रष्टव्यः, त्रयेणेति किं कस्मात् ? 'चतुष्टयादिरूपेण हेतु:' इति वक्तव्यं रूपान्तरस्यापि भावादिति भावः । तत्तावत् प्रथममन्यथानुपपन्नत्वम् । न च तत्त्रैरूप्यमेव तदभावे ऽप्युक्तेषु' हेतुषु भावात् तद्भावेऽपि वचनादावभावात् । तथा ज्ञातत्वमपि । नाज्ञातस्य गमकत्वम्, अतिप्रसङ्गात् । ज्ञातत्वं नाम ज्ञानमेव १० ज्ञातव्यव्यवहारस्य तन्निबन्धनत्वात् तत्कथं हेतो रूपम् अर्थान्तरत्वादिति चेत् ? न; ज्ञानं प्रति कर्मभावस्य तत्त्वात् । तदपि कथं रूपान्तरं त्रैरूप्यादव्यतिरेकादिति चेत्; न; अज्ञातव्यावृत्तिरूपतया तदन्यव्यावृत्तिरूपात् ततस्तस्य व्यतिरेकात् । यदि च ततस्तस्याव्यतिरेकात् न रूपान्तरत्वम्; अन्वयव्यतिरेकयोरपि परस्परतो न भवेत् तदविशेषात् । व्यतिरेक एव तयोः ", भावाभावरूपत्वात्सपक्षे भावो ह्यन्वयो विपक्षे चाभावो व्यतिरेक इति चेत्; कथमेवमितरवचनादितरस्यापि प्रति१५ पत्तिः ? नियमवतस्तद्वचनस्य तथा सामर्थ्यात् नियमवत् खलु तद्वचनं सपक्ष एवास्ति विपक्षे च नास्त्येवेति, तस्य तादृशी शक्तिर्यदेकमप्युभयं गमयतीति चेत्; कथं पुनर्वस्तुन्यसतो नियमस्य तेनाभिधानम् ? तथा स्वरूपस्याप्यसत एव तत्प्रसङ्गात् । तथा च न तस्यापि लिङ्गरूपत्वम्, असतस्तदनुपपत्तेरित्येकं पक्षधर्मत्वमेव तद्रूपमवशिष्येत । ततः स्वरूपवत् सत एव तस्याप्यभिधानमिति कथन्न परस्परं तयोरव्यतिरेकः ? नियमवतो ऽन्वयस्यैव व्यतिरेकत्वाद् व्यतिरेकस्यैव चान्वयत्वात् । भवतु नियमवत इतरस्याव्यतिरेकादरूपान्तरत्वं न केवलादिति चेत्; न; केवलस्येतरस्य चालिङ्गलक्षणत्वात् । व्यतिरेकोऽपि तद्वत इतरस्यास्त्येव विधिनिषेधरूपतयेति चेत्; युक्तमत्र ज्ञातत्वस्यापि त्रैरूप्याद् व्यतिरेकः तद्विलक्षर्णव्यावृत्तिरूपत्वात् । तथापि तद्वचनादेव तदवगम्यते ज्ञातस्यैव तस्य तल्लक्षणत्वात्; अज्ञातस्य गमकाङ्गत्वायोगात् । अतो [S] रूपान्तरं तदित्यपि न सङ्गतम्; अन्वयादेरपि तत्त्वापत्तेः । अन्यतरवचनाभिधेयत्वस्य स्वयमेवोपगमात् । पक्षधर्मत्वादित्रयस्य वा परस्परं तस्यापि २५ कृतमनित्यं प्रयत्नान्तरीयमनित्यमिति हेतुवचनादेवाधिगतेः, हेतोर्विना तेनासम्भवात् । अत एवोक्तम्"विदुषां वाच्यो हेतुरेव हि केवलः ।" [ प्र० वा० ३ । २६ ] इति । अशक्तितः तद्वचनात्; तदनवगच्छतां पृथगेव तस्याभिधानाद्रूपान्तरमेव ततस्तदिति चेत्; न; ज्ञातत्वेऽप्येव ं तत्त्वोपपत्तेः । अतो रूपान्तरमेव तद्वक्तव्यम् ।
७
एवमवाधितेविषयत्वमपि
५
२०
तदन्यस्यागमकत्वात् । नवबाधितत्वं
नाम बाधकस्य
१ पक्षधर्मत्वादिकमपि । २ -षु भा- आ०, ब०, प० । ३ ज्ञातत्वात् । ४ "त्र त्रैरूप्यव्यावृत्तिरूपात् " - ता०टि० । ५ त्रैरूप्यात् । ६ श्रन्वयव्यतिरेकयोः । ७ उत्तरमत्र आ०, ब०, प० । ८ - तद्व्या -आ०, ब०, प० । अरूपान्तरत्वम् ।