________________
२।१५४-५५ ]
२ अनुमानप्रस्तावः
१७७
न्यसति तद्व्यपदेशविषये यज्जातं ततः प्राक् स्वलक्षणं कार्य करणता तयोः कार्यत्वमसतः कारणत्वं जातस्येति । शेषं पूर्ववत् । न चायमस्मन्मते दोष:, न हि तत्र पिण्डादिर्घटादौ सत्यसत वा व्याप्रियते यदयं प्रसङ्गः स्यात्, अपि तु स्वयं तद्रूषो भवति । स एव खलु भावस्तत्र यत्प्रतिक्षणपरिणामो नाम । तस्य यदयन्यत्र सत्यसति च व्यापार निषेधात् कारणत्व प्रतिक्षेषः, प्रतिक्षिप्यताम्, न काचित् क्षतिः, तावतैव तत्र वस्तुत्वस्यावस्थानात् । अथ परिणाम एव ततस्तस्य प्रतिक्षिप्यते; तन्न; ५ तस्य तदनायत्तत्वात् । स्वभावतो हि तस्य परिणामो नान्यत्र व्यापारात् । अन एवोक्तम् - " परिणामस्वभावः स्याद् भावः” इति ‘“अयमर्थक्रिया हेतुः" इत्यपि ताद्रूप्यापेक्षयैवोक्तं नान्यत्र व्यापारात् । कथमेवं घटादौ चकचीवरादेः कारणत्वम् ? अतत्परिणामत्वादिति चेत् ? तत्रापि सन्निधिमात्रेणोपकारात् तद्व्यवहारो न मुख्यतः । मुख्यतस्तु पिण्डादेरेव तत्त्वं तत्परिणामत्वादिति न किञ्चिदसमञ्ज
समुत्पश्यामः ।
१०
'भेदिनाम्' इत्यादिना परमपि परस्य शिलाप्लवं दर्शयति-भे दिनाम् अन्योऽन्यविलक्षणानां प्रत्यभिज्ञा' तदेकत्वपरामर्श इति । अथवा, भिद्यन्ते सजातीयादन्यतश्चेति भेदाः निरंशा भावास्ते सन्त्येषामिति भेदिनस्तद्वादिनः तेषां प्रत्यभिज्ञा इति अयं रचितः । शिलाप्लव एव । पूर्वत्र सुगतेतरज्ञानयोरपि तत्प्रसङ्गादुत्तरत्रासम्भवात् । न हि निरंशवादिनां सांशं वस्तु सम्भवति तद्वादित्वव्यापत्तेः । सांशा च प्रत्यभिज्ञा नानापरामर्शरूपत्वात् । तदपि कल्पनयैव तस्येति चेत्; यतस्त- १५ त्कल्पनं तस्य तर्हि कथम् ? अतद्र पेण तत्कल्पनानुपपत्तेः । तस्यापि कल्पनयैवेति चेत्; न; अनवस्था - प्रसङ्गादिति पर्याप्तं प्रबन्धेन ।
-
तदेवं पक्षधर्मत्वादिकमन्तरेणापि अन्यथानुपपत्तिबलेन हेतोर्गमकत्वं तत्र तत्र स्थाने प्रतिपाद्य नेदं स्वबुद्धिपरिकल्पितमपि तु परागमसिद्धमित्युपदर्शयितुकामो भगवत्सीमन्धरस्वामितीर्थकरदेवसमवसरणात् गणधरदेव प्रसादा दासादितं देव्या पद्मावत्या यदानीय पात्रकेसरिस्वामिने २० समर्पितमन्यथानुपपत्तिवार्त्तिकं तदाह
अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥ १५४ ॥
नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? । इति ।
अन्यथा अन्येन_साध्याभावप्रकारेण अनुपपन्नत्वम् असम्भवनियमो यत्र हेतौ तत्र त्रयेण पक्षधर्मत्वादित्रितयेन किं न किञ्चित् फलं विनापि तेन गमकत्वात् । तत्र पक्षधर्मत्वेन विना २५ गमको यथा अस्ति सर्वज्ञः सुनिश्चितासम्भवबाधकप्रमाणत्वात्, अस्त्यात्मा उपलब्धेरित्यादिः ! समपक्षसत्त्वादिना शब्दानित्यत्वादौ श्रावणत्वादिः । न ह्यस्य सत्यपि सपक्षे सत्त्वं घटादेरश्रावणत्वात् । नापि व्यतिरेकः; तदुपदर्शनविषयस्य कस्यचिदपि दृष्टान्तस्याभावात् । तत्त्रितयेनापि विना; यथा सन्ति प्रमाणानि इष्टसाधनात् सन्ति बहिरर्थाः साधनदूषणप्रयोगादित्यादि । समर्थितं चैतेषामन्यथा
१ न्यायवि० श्लो० २।१३३ । २ न्यायवि० इलो० २।१३४ । ३ -ज्ञानं त- आ०, ब०, प० । ४ - नानांप-आ०, ब०, प० । ५ कल्पनयैवेति आ०, ब०, प० । ६ - वाद्यभेदं आ०, ब०, प० । ७ - दादापादितं आ०, ब०, प० । ८ 'विना गमकः' इत्यन्वयः ।
२३