________________
१२
१७६ न्यायविनिश्चयविवरणे
[२।१५१ न 'सुगतः' इत्यत्र अपुनरावृत्तिरुपसर्गार्थः स्यात्, दोषस्यैव पुनरावृत्तित्वात् । तस्मादस्त्येव तदापि तस्य तदिति । कथं वा तदन्यदर्शनदृष्टादपि तद्दर्शनस्योत्पत्तिः समकालात्तदनुपपत्तेः ? "नातोऽर्थः स्वधिया सह" [प्र० वा० २।२४६ ] इत्यस्य व्याघातात् । तद्व्याघातात्पूर्वं तद्दृष्टात
तदुत्पत्तिरिति चेत्; न; तदापि तस्य भावात् । पुनस्तत्पूर्वेत्यादि वचने अनवस्थानोपनिपातात् । तन्न ५ दृष्टमतीतम्, अपि तु नष्टमेव । तस्य च न कारणत्वं नीरूपत्वात् । एतेन भाविनोऽपि तत्त्वं निषिद्धम् :
तस्याप्यनुत्पन्नस्य नीरूपत्वात् । नाऽनुत्पादाद्भावित्वमपि तु द्रक्ष्यमाणत्वात्। ननु तदपि भाव्येव दर्शनम् , तस्यापि भावित्वं यद्यन्यतो द्रक्ष्यमाणत्वात्; तदेवानवस्थानम् । अनुत्पादादिति चेत् विषयस्यापि तत एव तदिति किं द्रक्ष्यमाणत्वेन ? अन्यथा प्रागपि तद्भावप्रसङ्गात् । एवमन्यदपि प्रकृतमत्र वक्तव्यम् । तन्न द्रक्ष्यमाणत्वं भौवित्वमिति दुर्भाषितमेतम्-- _"भाविता द्रक्ष्यमाणत्वमिति कालव्यवस्थितिः।"
[प्र० वार्तिकाल० १।१३८ ] इति । ततो नासतः कारणत्वमतीतादेः, नापि तत्कार्यत्वं प्रत्यभिज्ञानादेरिति तत्र तत्कल्पनमश्रद्धयतया शिलाप्लव एवेति स्थितम् । कः पुनरेवमाह-असत्कारणमिति, सौगतैः सतएव तत्त्वोपगमात्, कार्यत्वमेव तु असत् तत्काले तैरुपगम्यते, सत्त्वे कारणवैफल्यादिति चेत्, असत्यपि किं तद्व्यापारेण ? तद्रूपस्य तन्निरपेक्षत्वात्, अन्यथा सहेतुकत्वमभावस्य भावस्य तु स्वरसभावित्वमिति कथमिष्टविपर्ययो न भवेत् ? अथासत इति । पश्चात् सतः' इत्यर्थो न नीरूपस्येति, तदयमदोषः; तन्न; यस्मात्
पश्चात्सत्त्वानुवादेन कार्यत्वं तत्र चेद् भवेत् । भवतापि हि किं तेन सति तद्व्यर्थतास्थितेः? ॥१४८२॥ कार्यत्वादेव तत्सत्त्वं ततो न व्यर्थतेति चेत् ।
कार्यत्वात् सत्ततः कार्यमित्यन्योऽन्याश्रयो न किम् ? ॥१४८३।।
सत्यपि कार्यत्वे यदि तद्व्यापारस्तद्रूपं स्पृशति; न क्षणभङ्गः । न स्पृशति चेत् कथं ततस्तदिति ? तदनन्तरनियमादिति चेत्, न; तस्य सकलजगत् क्षणापेक्षयापि भावात् । एवमहेतुकत्वे तस्य नित्यं सत्त्वादि किन्नेति चेत् ? सहेतुकत्वेऽपि कस्मान्न सर्वहेतुकत्वम् ? अथायं तस्य स्वभावो यतस्तै न्नियमाविशेषेऽपि कुतश्चिदेव भवतीति; यद्येवम, अयमपि तस्यैव स्वभावो यन्निर्हेतुकमपि नित्यं न भवतीति । तन्न पश्चात्सतोऽप्यसतः कार्यत्वम् , तदभावान्न सतोऽपि कारणत्वमिति तत्र तत्कल्पनं शिलाप्लव एव । तदेवाह-'यस्मिन्' इत्यादि । यस्मिन् पश्चाभावि
१ "सुष्टु अपुनरावृत्त्या गतः सुगतः"-ता० टि० । २"अपुनरावृत्त्यर्थं सुनष्टज्वरवत् ।प्र० वार्तिकालपृ० १। 'सुगतः' इत्यत्र सूपसर्गस्य अर्थः । ३-दर्शनंह-आ०, ब०, प० । कारणत्वम् । ५ दर्शनस्यापि । ६:-त्वमपिदु-आ०, ब०, प० । ७ कारणत्वोपगमात् । ८ कारणकाले । ९ कारणव्यापारेण । १० कुत्रचिद्भ-आ०,बल, प०।११ सततः आ०, ब० । सततं प० । १२ तदनन्तरनियम ।