________________
१७५
२।१५४ ]
२ अनुमानप्रस्तावः ___ यस्मिन् दर्शने असति अविद्यमाने, कार्यकाले सतः कारणत्वानभ्युपगमात्, यज्जातं परामर्शज्ञानं कार्यकारणता तयोः कार्यता तज्ज्ञानस्य कारणता दर्शनस्य इति एवं रचितो निर्मितः सौगतेनायमपूर्वः शिलासवः तत्कार्यकारणभाव एवाश्रद्धेयतया शिलाप्लवतुल्यत्वात् तच्छब्देनोक्तः । नापि तद्भावस्य श्रद्धेयत्वम् ; असतो नीरूपत्वेन कारणत्वायोगात् । कार्य एव तस्य नीरूपत्वं न पूर्वमिति चेत्, ननु पूर्वमित्यपि तस्य प्रध्वंस एवोच्यते नापरः कालोऽनभ्युपगमात् । तत्र च ५ कथमस्तित्वं विरोधात् ? दृष्टत्वमेव तस्य पूर्वत्वं न नाशः "दृष्टताऽतीतकालत्वं दृश्यता वर्तमानता ।" [प्र. वार्तिकाल० १।१३८ ] इति वचनादिति चेत्; किं पुनरिदं दृष्टत्वं नाम ? अतीतं दर्शनमेवेति चेत्; तस्यापि किमिदमतीतत्वम् ? अपरं दृष्टत्वमिति चेत्; तत्रापि किं पुनरित्यादेः प्रसङ्गादनवस्थापत्तेश्च । तस्योपरतिरेव अतीतत्वमिति चेत्, भावस्यापि सैव तदिति किं दृष्टत्वेन ? अतीतं नष्टमिति च लोकव्यवहारात् । किञ्च, एवमतीतं कारणमिति दृष्टं १० कारणमिति भवेत्, तथा च कथं खलविलान्तर्गतबीजादेः तत्त्वमदृष्टत्वात् । दृष्टमेव तदपि योगिनेति चेत्, न तर्हि तस्यातीतत्वम् । “दृश्यमानतया वर्तमानमेव" [ प्र० वार्तिकाल० ११३८] इति वचनात् । अन्यैरदृश्यत्वात् अतीतमपीति चेत्, नादृश्यत्वादतीतत्वम्, अपि तु दृष्टत्वात्, तच्च तस्यात्मापेक्षया नास्त्येव । अदृश्यत्वादप्यतीतत्वमिष्टमेव "तस्मादतीतादि योगी पश्यतीति कोऽर्थः ? अन्येनादृश्यमानं पश्यति ।" [प्र० वार्तिकाल० १।१३८ ] १५ इत्यलङ्कारवचनादिति चेत्, न; तत्राप्यतीतस्यैव तदर्शनस्य वर्तमानतन्निषेधेनाभिधानात्, अन्यथा "दृष्टताऽतीतकालत्वम्" [प्र० वार्तिकाल० ] इत्यस्य व्याघातात् । किञ्च,
अन्यादृष्टरतीतत्वात् वर्तमानत्वतोऽपि च।
योगिदृष्ट्या स एव स्याद्धेतुरन्योऽपि चाक्रमात् ।।१४८१॥
अन्यैरदृश्यमानत्वेन तस्यातीतत्वात् कारणत्वमकारणत्वं निष्पर्यायं प्राप्तं योगिना वर्तमान- २० तया दर्शनादिति सङ्कटप्रवेशः-तत्कार्यस्य युगपदेवोत्पादानुत्पादयोरुपनिपातात् । अथ योगिनोऽपि समाधानकाल एव तद्वर्त्तमानं न तस्मादुत्थितस्य, अत एवोक्तम्-"योगिना च समाधानादुत्थितेनातीततया व्यवहारात् ।" [ प्र० वार्तिकाल० १।१३८ ] इति चेत्, न; तथापि तत्प्रवेशस्यानिवृत्तेः योग्यन्तरं प्रवृत्तसमाधानं प्रति तस्यैव वर्तमानत्वात्, योगिनाञ्च बहुत्वात् । न चायमपि नियमस्तेषां समकालमेव समाधानं तस्मादुत्थानं चेति, अन्यथापि तदविरोधात् । अपि च, योगि- २५ दर्शनस्यापि कारणमेव तद्विषयः, कारणत्वं च दृष्टत्वात्, तदपि यदि तदर्शनापेक्षं परस्पराश्रयः–दृष्टादर्शनं ततो दृष्टमिति । दर्शनान्तरापेक्षमिति चेत्, तदपि यदि तस्यैव योगिनः, स एव प्रसङ्गः तस्यापि तदृदृष्टादेवोत्पत्तेः, पुनर्दर्शनान्तरदृष्टात् तदुत्पत्तावनवस्थाप्रसङ्गात् । दर्शनान्तरं परस्यैव योगिन इति चेत्; किं तत्काले प्रकृतस्य तस्य तदर्शनं नास्ति ? तथा चेत्, कथं सर्ववेदनम् ? तदपि समाधानादुत्थितस्य नास्त्येवेति चत्; न; तदुत्थानस्य तदप्रतिबन्धित्वात्, अन्यथा दोष एव स इति ३०
१ सुगते-आ०, ब०, प० । २ त्यादिप्र- आ०,ब०, प० । ३ तस्मादास्मा-श्रा०, ब०,प० । ४ ध्यानकाले । ५ सङ्कटप्रवेश । ६ -स्थानप्र-आ०, ब०, प० । ७- स्य दर्श-आ०, ब०, प० ।