________________
१७४
न्यायविनिश्चयविवरणे
तादात्म्यात् प्रत्यभिज्ञा न सदृशापर हेतुतः ॥ १५१ ॥ अवस्थान्तर्विशेषोऽपि बहिरन्तश्च लक्ष्यते । इति ।
३०
तादात्म्यात् परापरक्षणेषु कथञ्चिज्जीवस्य अभेदात् प्रत्यभिज्ञा स एवाहमिति परामर्शो न नैव सदृशश्चासावपरश्च अपरापर उपादानोपादेयप्रबन्धः वीप्सापरत्वान्निर्देशस्य स एव ५ हेतुस्तस्मादिति । 'अवस्था' इत्यादिरत्रैवोपपत्तिः । अवस्थानां परापर चित्तक्षणलक्षणानाम् अन्तः अन्तर्गतः सन्तानान्तरासम्भावितया तत्रैव नियतो विशेषो हेतुफलभावः सोऽपि न केवलं वक्ष्यमाणो लक्ष्यते निश्चीयते । क ? बहिरन्तश्च अर्थे ज्ञाने च । एतदुक्तं भवति - सत्येव परापरपरिज्ञाने तेषु तद्विशेषलक्षणं तत्परिज्ञानञ्च जीवादेव, न क्षणनियताद्दर्शनात् तस्य पूर्ववृत्तेरुत्तरत्र तद्वृतेश्च पूर्वत्राभावात् । नापि तदुभयदर्शनजन्मनः तं दिदमित्याकारात्प्रत्यभिज्ञानात् तस्यैवाभावात् । १० भावे वा नाभेदप्रत्यभिज्ञानं तत्र; विरोधादिति कुतः सन्तानकल्पनं यतः संसारतत्कारणादिकमवकल्प्येत ? जीवादपि कथं तल्लक्षणं तत्रापि भेदस्यानवभासनादिति चेत् न ; कथञ्चित्तस्यापि भावात् । न चैवं प्रत्यभिज्ञाने भेदवत् अभेदस्यापि प्रतिभासः तस्यापि तात्त्विकत्वेनेष्टसिद्धिप्रसङ्गात् । भेदस्यैव तात्त्विक प्रत्यभिज्ञानमेव न भवेत् विभ्रमेतरयोरेकत्र विरोधात् । अविरोधे भेदेतरात्मापि भावस्तात्त्विक एव स्यात् । इत्युपपन्नं जीवादेव तल्लक्षणम् । तदभावे प्रत्यभिज्ञानस्याप्यव्यवस्थितेः । पुनरपि १५ ' तादात्म्यात् प्रत्यभिज्ञानम्' इत्यत्रोपपत्तिमाह
सूक्ष्मस्थूलतरा भावाः स्वष्टास्पष्टावभासिनः ॥ १५२ ॥ वितथेतर विज्ञाने प्रमाणेतरतां गते । इति ।
[ २।१५१-५४
सूक्ष्माश्च स्थूलतराश्च, स्थूला एव स्थूलतराः स्वार्थिकत्वात्तरप्रत्ययस्य अल्पाच्तरवत् । सूक्ष्मस्थूलतरा भावा बदरसहकारनालिकेरपनसफलादयः । तथा स्पष्टाश्चास्पष्टाश्च ते २० भासिनश्च स्पष्टास्पष्टावभासिनो भावाः समीपदूरदेशवर्तिनो वनस्पत्यादयः । अत्र लक्ष्यन्ते इति वचनपरिणामेन सम्बन्धनीयम् । तथा वितथं च द्विचन्द्रादिविषयम् इतरच्च एकचन्द्रादिगोचरं ते च ते विज्ञाने च तथोक्ते, अत्र लक्ष्येते इति द्विवचनपरिणामेन । कीदृशे ते लक्ष्येते ? प्रमाणेतरतां गते प्रमाणतां गतमवितथम्, इतरतामप्रमाणतां गतं तु वितथमिति । तल्लक्षणं चात्र बदरादिभ्यः सहकारादयः स्थूलास्तेभ्यश्च बदरादयः सूक्ष्माः इति दूरपर्वतादिभ्यः समीपाः नी - २५ कूपादयः स्पष्टावभासिनः तेभ्यस्तत्पर्वतादयो ऽस्पष्टावभासिन इति । वितथादितरत् प्रमाणम्, इतरस्माच्च वितथमप्रमाणम् इति च परामर्श एव । न चायं तादात्म्याभावे सम्भवति, दर्शनस्योभयविषयस्याभावात्, भावेऽप्यपरामर्शरूपत्वात् । मा भूत् स्वयं परामर्शरूपं दर्शनम्, परामर्शस्य कारणं तु भवति संस्कारप्रबोधसहायमिति चेत्, अत्राह -
यस्मिन्नसति यज्जातं कार्यकारणता तयोः ॥ १५३॥ भेदिनां प्रत्यभिज्ञेति रचितोऽयं शिलाप्लवः । इति ।
१ तत इद - ता० । २ लक्षण ता० । ३ वापीकूपा - प० ।