________________
१७३
२।१५०-५१]
२ अनुमानप्रस्तावः च शब्दः अपिशब्दार्थो भिन्नप्रक्रमश्च 'निर्णये' इत्यत्र द्रष्टव्यः । निर्णयेऽपि न केवलं तदभावे । क ? बहिः नीलधवलादौ अनिर्णयात् निर्णयाभावात् । क ? अन्तः निर्णयस्वरूपे । न हि तत्र तेषामपि निर्णयः परतः; अनवस्थानात्, स्वतश्च निर्विकल्पत्वात् । ततश्च मोहः प्रज्ञामान्यलक्षणः तादृशः तदभ्यासेऽपि यादृशः पूर्वम् । स्वरूपानिर्णये' परनिर्णयस्याप्यभावादिति मन्यते । भवन्मतेऽषि कथं महामतित्वम् ! श्रुतज्ञानपरिशीलनादेव तद्भावात, तज्ज्ञानस्य . चावस्तुविषय- ५ त्वादिति चेत् ? न; तस्यापि वस्तुगोचरत्वेन व्यवस्थापनात्, सकलस्यापि शास्त्रप्रयासस्य तदर्थत्वात् । न च तदभ्यासान्महामतित्वम्, जीवस्य स्वशक्तित एव तद्भावात् । प्राणिमात्रस्यापि कुतो न भवतीति चेत् ? भवत्येवः कथमन्यथा 'सत् सर्वमनेकान्तात्मकम्' इत्यादि व्याप्तिज्ञानम् ? प्रतिक्षणपरिणामादिसकलसूक्ष्मविशेषेष्वपि किन्नेति चेत् ? स्यादेव यद्यसौ अनावृतः स्यात् । एतदेव दर्शयति
जीवः प्रतिक्षणं भिन्नश्चतनो यदि नावृतः ॥१५०॥
सकलग्रहसामर्थ्यात्तथास्मानं प्रकाशयेत् । इति ।
जीवो व्याख्यातस्तथा तेन सकलपकारेण आत्मानं स्वरूपम् , उपलक्षणमिदं तेन परमपि । प्रकाशयेत् स्पष्टपतिभासं विदध्यात् । कुतः ? 'सकलग्रहसामर्थ्यात्' इति । स्पष्टमिदम् । इदञ्च व्याप्तिज्ञानबलादेवावगम्यते । कदा प्रकाशयेत् ? यदि नावृतः कर्मविशेषेण प्रच्छादितो यदि न भवेत् । तत्पच्छादितश्चायं स्वविषयेऽप्यप्रवृत्तिमत्त्वात् कामलिवत् । कामली हि स्वविषयेऽपि १५ चन्द्रैकत्वादौ कामलावरणवत्त्वादेव अप्रवृत्तिमान् प्रसिद्ध इत्युपपन्नो दृष्टान्तः । तस्य तद्विषयत्वं चावरणात् पूर्व पश्चाच्च तेनाधिगतेः । प्रतिक्षणपरिणामादेरपि विशेषस्य जीवविषयत्वम्, सामान्येन व्याप्तिज्ञाने प्रतिभासनात् चन्द्रकत्वादिवदेव । तद्धि कामलिज्ञाने चन्द्रत्वादिना सामान्येन प्रतिभासमानं योग्यतया तद्विषय एब, अन्यथा तदावरणापायेऽप्यविषयत्वप्रसङ्गादिति निरवद्यमुदाहरणम् । - सत्यध्यावरणे जीवस्य नित्यत्वेन सकलग्रहणशक्तरपरिक्षयात् कथं स्वविषयेऽप्यवृत्तिरिति चेत् ? न; २०
एकान्तेन नित्यत्वाभावात् । प्रतिक्षणपरिणामिनश्च तद्वशात् तत्परिक्षयस्योपपत्तेः । सकलग्रहणसामर्थ्यमपि तस्य अर्थान्तरज्ञानसमवायादेव न स्वत इति कश्चित्; तन्न; स्वतश्चेतनस्य तद्वैयर्थ्यात् । चेतनत्वमपि ततै एवेति चेत् ; न; आकाशादावपि तत्प्रसङ्गात् तदविशेषात् । अथास्ति कश्चिद्विशेषो यतो जीवस्यैव ततस्तत्त्वं नाकाशादेः; स तर्हि जीवस्वभावो भवंश्चेतनत्वान्नापर इति व्यर्थमेव तत्समवायस्य कल्पनमिति एतत् चेतनपदेन दर्शितम् । तदेवं जीवस्यावरणवशादसकलज्ञत्वम्, तदपगमे तु २५ स्वत एव सकलज्ञत्वेन महामतित्वं न श्रुतज्ञानपरिशीलनात् । तत्तु तदावरणस्यैव तदास्रवनिरोधद्वारेण परिक्षयार्थमिति सर्व समञ्जसम् । प्रतिक्षणपरिणामे जीवस्य क्षणिकत्वमेव न नित्यत्वमिति चेत्, न तस्यापि प्रत्यभिज्ञानबलेन तत्र व्यवस्थापितत्वात् , तदपि सदृशापरापरोत्पत्तिविभ्रमादेव' . न तात्त्विकादेकत्वादिति चेत्; अत्राह
१-निर्णयैरपर-श्रा, ब०, प० । २ वैशेषिकः । ३ समवायादेव । ४ समवायाच्चेतनत्वम् । ५ श्रुतज्ञानपरिशीलनम् । ६"प्रत्यभिज्ञानं ।"-ता०टि ।