________________
१७२ न्यायविनिश्चयविवरणे
[२।१४८-१५० तदभावः, अन्यथा अतिप्रसङ्गात् । ततस्तद्बहुत्वं व्यवस्थापयता तद्विषयमेकमभ्युपगन्तव्यमिति सिद्धं स्वपरावभासित्वं तस्य । तद्वदन्येषामपीति नाणुस्वभावं किमपि संवेदनम् । भवत्वेवं युगपच्चित्रमेव न तत्क्रमेण क्षणिकत्वादिति चेत; न; चित्रस्यापि क्षणक्षीणशरीरस्याप्रतिवेदनात् । एतदेवाह
कालापकर्षपर्यन्तविवातिशया गतिः ॥१४८॥ इति ।
कालस्यापकर्षपर्यन्तो हानिपर्यवसानम् अत्यन्तसूक्ष्मः कालस्तत्र विवर्तस्य वस्तुजन्मनोऽतिशयस्तत्रैव भावः तस्याऽगतिः अप्रतिपत्तिः । अत्रोपपत्तिं दर्शयन्नाह
___ अशक्तेरणुवत् [ सेयमनेकान्तानुरोधिनी ] । इति ।
यथा ज्ञानस्यान्यस्य वा अणोरगतिः तद्गतौ शत्त्यभावात् तथोक्तस्यापि तदतिशयस्य । का पुनरियमशक्तिर्नाम यतस्तदगतिः ? इत्यत्राह- 'सेयमनेकान्तानुरोधिनी' इति । सा परमाणुत१० दतिशयपरिच्छेदाशक्तिः इयमेव, पर्युदासवृत्त्या न परा । इयमर्थमावेदयति-'अनेकान्तानुरोधिनी'
इति। अनेकान्तः क्रमाक्रमाभ्यामनेकधर्माधिष्ठायी भावः तस्यानुरोधो बुद्धया स्वीकारः स विद्यते यस्यां सा तदनुरोधिनी तद्ग्राहिका शक्तिरिति यावत् । सा च तत्प्रतिपत्तेरेव लोकप्रसिद्धायाः प्रसिद्धयतीति मन्यते ।
ननु यद्यपि नामास्मदादीनां न परमाणुक्षणिकप्रतिपत्तिः अल्पप्रज्ञत्वेनासामर्थ्यात्, १५ महामतीनां तु भवत्येव । अत एवोक्तम् – “व्यवस्यन्तीक्षणादेव सर्वाकारं महाधियः ।"
[प्र० वा० २।१०७] इति चेत्; कुतस्तेषां महामतित्वम् ? न स्वभावादेव; अनभ्युपगमात् । “नित्यं प्रमाणं नवास्ति ।" [प्र० वा० ११० ] इत्यभिधानात् । अनुमानाभ्यासादिति चेत्; अत्राह
अंशग्रहविवेकत्वान्मन्दाः किमतिशेरते ॥१४६॥ इति ।
मन्दाः पूर्वल्पप्रज्ञाः सन्तः पश्चात् किं नैव अतिशेरते प्रैज्ञाधिक्यप्राप्त्यतिशयन्तो २० भवन्तः कस्मान्न भवन्ति ! अंशस्य वस्तुधर्मस्य क्षणक्षयादेग्रहः प्रतिवेदनं तस्माद्विवेको
व्यावृत्तिर्यस्य तदनुमानस्य तस्य भावादिति। तात्पर्यमत्र-महामतित्वं हि तेषां क्षणभङ्गादिविषयं तद्विषयस्यैव अनुमानस्याभ्यासादुपपन्न नातद्विषयस्य, अन्यथा नित्यादिविषयस्यापि तत एव तस्य प्रसङ्गात् । न चानुमानस्य तद्विषयत्वम् ; विकल्पत्वेन अवस्तुसंस्पर्शित्वात् । तथापि क्षणक्षयादावेव
तस्य प्रतिबन्धात् तत्रैव तदभ्यासतो महामतित्वं न नित्यादाविति चेत्, ननु प्रतिबन्धोऽषि महाधि२५ यामेव विषयो नान्येषाम् , ते च तत्रैव त प्रतियन्ति नान्यत्रेति कुतः ? तत्रैव निर्णयात् । एतदपि
कस्मात् ? प्रतिबन्धस्य तत्रैवावगमादिति चेत्, न; परस्पराश्रयप्रसङ्गात् । सत्यषि तदभ्यासाद् बहिस्तेषां सर्वाकार निर्णये नन्तिः तत्सम्भव इत्याह
निर्णयेऽनिर्णयान्मोहो बहिरन्तश्च तादृशः । इति ।
१-छानभावः आ०, ब०, प०।२ प्रज्ञादित्यप्राप्त्यतिशयवन्तो न भ-आ०, ब०,५०।३ तत्रैव प्रतिबन्धस्यावगमे तत्रैव निर्णयः, सति च तस्मिन् तत्रैव प्रतिबन्धावगमः। ४ नातः आ०, ब०, प० ।