Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 392
________________ ३१५ ३।४०] ३प्रवचनप्रस्तावः इति चेत्, न; अत एव विद्युदादावपि अतो भेदप्रतिपत्तेरभावप्रसङ्गात् । अपि च, न जलपात्रेषु सवितुरवेक्षणं तत्र तस्याभावात्, यश्च तत्रावेक्ष्यते तत्प्रतिनिधिः स भिन्न एव प्रतिपात्रमिति कथं तेन व्यभिचारः ? सपक्षेणैव तदनुपपत्तेः । भवेदाकृतं भवतः पात्रावस्थिते पयसि परिस्फुरता भानुमतस्तेजसा चाक्षुषं तेजः प्रति तत्पयः प्रवर्त्यमानं व्योमगतमेव मरीचिमालिनं प्रतिपात्रमनेकधा भिद्यमानमवद्योतयति । न चैवमपि ५ वस्तुतो भेद इति व्यभिचार एवेति ; तदिदं दुराकूतम् ; एवमनुभवाभावात् । न हि जलपात्राणि पश्यतो व्योमगतविवस्वदवलोकनस्यानुभवः, तत्प्रतिबिम्बावलोकनस्यैव तद्भावात् । तथाऽपि तदपह्नवेन इतरपरिकल्पनायां न क्वचिनियता तत्परिक्लृप्तिर्भवेत् । कथं चैवं 'जलयात्रेषु' इत्याद्यविरुद्धम्, स्वदेशगतस्यैव सवितुरवेक्षणे तत्पात्रेषु तदवेक्षणवचनस्यानुपपत्तेः ? ततो यदुक्तम् "अत्र ब्रूमो वयं तावज्जले सौर्येण तेजसा । स्फुरता चाक्षुषं तेजः प्रतिस्रोतः प्रवर्तितम् ॥ स्वदेशभिन्नं गृह्णाति सवितारमनेकधा। भिन्नमूर्ति यथापात्रं तदाऽस्यानेकता कुतः ।" [मी. श्लो० शब्दनि. श्लो० १८०-८२] इति । १५ तत्प्रतिविहितम् ; अनुभवप्रत्यनीकत्वात् स्ववचनविरोधाच्च । यदप्यन्यदुक्तम्- . "अप्सूर्यदर्शिनां नित्यं द्वधा चक्षुः प्रवर्तते । एकमूर्ध्वमधस्ताच्च तत्रोवं सम्प्रदर्शितम् ॥ 'अधिष्ठातृऋजुस्थत्वात् साक्षात् सूर्य प्रपद्यते । पारम्पर्याऽपितं सन्तमवागवृत्या तु बुद्धयते ॥ एवं वृत्तितदेकत्वादवागिव च मन्यते। अधस्तादेव तेनार्कः सान्तरालः प्रतीयते ॥" मी० श्लो० शब्दनि० श्लो० १८६-८९] इति । तत्रापि योऽसौ चक्षुषोऽवाग्वृत्त्या सूर्यस्यावागवबोधः स चेदभ्रान्तः कथमेतद् 'अवागिव च मन्यते' इति ? विभ्रमविकलात्ततः तथा मन नासम्भवात् । अथ भिन्नमेव २५ तद्बोधात् तथा तन्मननम्, अत एव 'अवाग्वृत्त्या तु बुद्धयते' इत्यतः पृथगेव 'अवागिव च मन्यते' इत्युक्तम् । न ह्यभेदे पृथग्वचनमुपपन्नं पौनरुक्त्यदोषात् । ततोऽन्यदेव तथा तन्मननं न प्रत्यक्षमिति चेत् ; न; तथाऽसम्प्रत्ययात्। न हि प्रत्यक्षमन्यत्- यथाऽवस्थितमरीचिमालिगोचरम्, तदनन्तरं च तदवाग्भावविभावनं मननमवलोकयामः, चक्षुर्व्यापारानन्तरम् अवाचीनस्यैव तिग्मरुचिरूपस्य निरूपणात् । तथाऽपि तत्कल्पनायां सुखं जीवन्तु सौगताः, ३० बहिरन्तश्च निरंशक्षणिकपरमाणुदर्शनस्य तदनन्तरभाविनः स्थूलैकविकल्पस्य च तत्परिकल्पितस्यापि एवमव्याकुलमवस्थितः, "अतोऽयं भ्रान्त एव, न तर्हि 'पारम्पर्याऽपितम्' इत्याधुपपन्नम्, विभ्रमविषयस्य सत्त्वानुपपत्तेः । न सूर्ये तस्य विभ्रमो देशभेद एव तद्भावादिति चेत्; न; तत्रापि बाधाभावात् । सूर्यसम्बन्धिनि बाध एवेति चेत् ; न; सूर्येऽपि तत्सम्ब- ३५ न्धिनि तदविशेषात् । न तन्मात्रे बाध इति चेत् ; न; तस्याप्रतिभासनात् । न हि तन्मा १ तत्रोर्वाशप्रदर्शितम्-मी० श्लो०। २ प्रतिष्ठातृजलत्वान्नाना सूर्य प्रा० । अधिष्ठानानृजुत्वाच नात्मा सूर्य-मी० श्लो० । ३ ततोऽन्यसदेव श्रा० । ४ यथायं श्रा० ।

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538