Book Title: Nandanvan Kalpataru 2018 11 SrNo 41 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 5
________________ यस्मिन् देशे सर्वेषामपि मतानां विविधानि धर्मस्थानानि जगतोऽप्यधिकानि तत्रैतादृशी परिस्थितिः? कदाचिदेवमपि स्यात् - भ्रष्टाचारस्येयत्यधिका मात्राऽस्माकं देशेऽस्तीति तत उत्पन्नस्य पापस्य भयाद् धर्मस्थानानामपि सङ्ख्या वर्धतेतराम् ॥ । प्रथमं भ्रष्टाचारेणाऽन्याय्यं धनं प्राप्तव्यं, ततश्च तेन धनेन धर्मस्थानानि निर्माय तत्र पूजा-पाठादिकं कर्तव्यमिति हि मानसिकता जनताया हृदयतले निविष्टेति स्पष्टमेव विलोक्यते । "वयं यानि कानिचिदपि पापान्याचरेम चेदपि तानि धर्मकार्येषु धनव्ययेन क्षालितानि भविष्यन्ती"ति हि जना अद्यत्वे निश्चप्रचं मन्यन्ते तदनुगुणं चाऽऽचरणमपि कुर्वन्ति । ततश्चैते एव जनाः समग्रेऽपि देशे प्रसृतस्य भ्रष्टाचारस्य विषये विस्तृतां चर्चा कुर्वन्ति, तदर्थं च नेतन् मन्त्रिणः सांसदांश्च तथा सर्वकारीयानधिकारिणः कर्मचारिणश्चैवाऽपराधिनो मन्वानाः स्वयं च निर्दोषा एवेति मन्यमानाः ससन्तोषं स्वपन्ति । किन्तु भ्रष्टाः प्रजाः किं कदाऽप्यभ्रष्टनेतृनुपलभेरन् वा ? अभ्रष्टप्रजातो वा कदाऽपि भ्रष्टा नेतारो जायेरन् वा ? यावन्नागरिका वयं स्वयं भ्रष्टाचारं प्रति, अनीति प्रति, अप्रामाणिकतां च प्रति जागरिता न भविष्यामस्तावदस्माभिः सर्वैरपि विजयमाल्या-नीरवमोदीप्रमुखानां भ्रष्टाचारा विना प्रतिकारं सोढव्या एव। किं वयं जागरिष्यामः ? नूतनवर्षदिनम् वि.सं. २०७५ कीर्तित्रयी वापीनगरम्Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 90