Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 12
________________ श्रीमहावीराष्टकम् आचार्यश्रीविजयनेमिसूरिशिष्यः स्व. प्रवर्तकमुनिश्रीयशोविजयः श्रीवीरं वैरमुक्तं प्रतिदिनमनघं मानवानां नवानां वाञ्छापूर्तिं वितन्वन्तमहकममहं सद्दयानां दयानाम् । पूरं शूरं शरीरस्थितरिपुदलने वास्तवानां स्तवानां स्तोमैः सोमैः समस्तैः शमदमनियमैः संस्तवीमि स्तवीमि ॥१॥ ये त्वां सन्मधुराक्षरैरहरहःस्तोष्ट्रयमानाः स्तवैराधिव्याधिरुपाधिराप्तभविनां दूरं प्रयाति क्षणात् । सझस्वर्गवदेव देव! भवति प्रज्ञावतां प्राणिनां दासन्त्येव सुरावराः सुरमणिस्तेषां च हस्ते स्थितः ॥२॥ घोरक्रोधतरक्षुकामशबरं दुष्कर्मपञ्चाननं मायाजाललताप्रतानगहनं मानोग्रमत्तद्विपम् । सम्फूत्कुर्वदमन्दलोभभुजगं रागोग्रशार्दूलकं संसारं विपिनं तदस्ति भविनां कस्त्वां विनावाऽऽश्रयः ॥३॥ विख्यातो धरणिप्रकाशकुशलोऽहं सर्वलोकप्रियः सूर्य! त्वं किमु शूरतां प्रथयसीत्येवं क्षमामण्डले । श्रीवीरस्य समस्तलोकविदितं कर्मक्षयाविष्कृतं किलाऽऽलोकयसे त्रिलोककलनाकौशल्यमानन्ददम् ॥४॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120