Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 113
________________ दम्पत्योः कलहो जातः, फलतश्च परस्परं वाग्व्यवहार स्थगितोऽभवत् । पतिः पत्न्या भृशमनुनयं कृतवान् किन्तु पत्नी सर्वथा नैव भाषितवती । अतः पत्या किञ्चिद् विचार्य दीप एक प्रज्वालितः, तं च गृहीत्वा स किञ्चिदन्वेषणं कर्तुमारब्धः । इतस्ततोऽन्वेषयन्तं तं विलोक्य पत्न्या सहसा पृष्टम् – 'किं वाऽन्वेषयति भवान् ?' पत्या सस्मितमुक्तं – 'भवत्या जिह्वामन्वेष्यन्नासम् । झटित्येव सा प्राप्तेति हर्षस्य विषयोऽयम् !! पुत्रः मातः ! अस्माकं गृहे विशिष्टभोजनसमारम्भस्य कृते भाजनानां या चतुर्विंश्यस्ति तां भवती स्मरति वा? आम् वत्स ! । किन्तु किमितीदानीं त्वं तत् पृच्छसि ? अन्यत् किमपि नास्ति मातः !, केवलं सा चतुर्विंश्यद्य पञ्चविंशी जाता !! माता पुत्रः सुप्रभातं भगिनि !, अहं पियानोवाद्यसमारचकः । क्वाऽस्ति भवत्याः पियानोवाद्यम् ? किन्तु मया तु पियानोवाद्यसमारचनार्थं न कोऽप्याहूतः किल ! जानाम्यहं तत् । परं भवत्याः प्रतिवेशिभिः संभूयाऽऽहूतोऽहमस्मि खलु !! एकस्मिन् महिलोपयोगिवस्तुनामापणे फलकमेकमुल्लम्बितमासीत् – “यदि दशनिमेषाभ्यन्तर एव भवत्याः क्रयणं समाप्येत तदा दश प्रतिशतं मूल्यं न्यूनं दातव्यम् !" पुत्रः पिता पितः ! अहमेकं प्रश्न प्रष्टमिच्छामि । किमिति त्वं निजमातरमेव न पृच्छसि ? अहो पितः !, अहं संक्षिप्तमेवोत्तरमिच्छामि, अतः !! पुत्रः १०५

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120