Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 112
________________ मर्म-नर्म कीर्तित्रयी आरक्षकः मद्यपः (मध्यरात्रे) (मद्यपं) भोः ! क्व गच्छति भवान् ? मद्यपानेन जायमानानां हानीनां विषये प्रवचनं श्रोतुम् । प्रवचनम् ? अस्यां वेलायाम् ? को वा दास्यति ? मम माता पत्नी च !! आरक्षकः मद्यपः रमणः चिकित्सको मासत्रयं यावद् विश्रामकरणार्थं निर्दिष्टवानस्ति, तदर्थं च काश्मीरप्रदेशं स्विट्झरलेन्डदेशं वा गन्तव्यमित्यपि साग्रहं कथितवान् । एवं? तर्हि क्व गमिष्याव आवाम् ? अन्यचिकित्सकपार्श्वे !! रमणी रमणः । अज्ञानं नाम किम् ? यदा भवान् किञ्चिद् विषयं न जानाति - इत्येतत् कश्चन जानीयात् !! + विदग्धः दुर्विदग्धः विदग्धः भवत उद्योगः किमर्थं निष्फलोऽभवत् ? प्रभूतानि विज्ञापनानि प्रदत्तानीत्यतः ! विज्ञापनानि ? मया त्वेकमपि न दृष्टं भवदुद्योगस्य विज्ञापनं किल ! किन्त्वस्माकं प्रतिस्पधिभिः कियन्ति विज्ञापनानि प्रदत्तानि खलु !! १०४

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120