Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 110
________________ उत्तुङ्गशिखरे तिष्ठन्नपि मातृभूमेर्भग्नकुटीरं, मात्रा परिविष्टं क्षालितान्नं, भर्ज, पित्राजितां स्वल्पमितां भूमि स्मृत्वा दुःखं प्राप्नोमि । परन्तु मे सुखसौधो महावात्याविपत्पातेन भूमिसाज्जातः । वङ्गोपसागरस्य नीललहरीमाला चक्रवातेन आलोडिता ग्रामेषु प्रविष्टा । लक्षशो जना मृताः । वृक्षलता मूलोत्पाटिताः । कृषिक्षेत्रं नष्टभ्रष्टम् । ग्रामाः प्लाविताः । अस्माकं सीमान्तवाहिनी तत्रोद्धारकार्ये नियुक्ता । मार्गे गलितशवानां समारोहः । सम्पूर्णपरिसरो जलप्लावितः । कुत्र ग्राम आसीदिति सर्वकारीयमानचित्रान्निरूप्य वयं तत्र प्राप्तवन्तः । तत्र मम स्वप्नस्य कुटीरं जलसाज्जातमासीत् । अवशिष्टा ग्रामवासिनो मुक्ताकाशतले कस्यचन विद्यालयस्य प्राङ्गणे आश्रिता जातिवर्णधर्मनिर्विशेषा आबालवृद्धवनिता एकत्र भोजनं कुर्वन्ति । ग्रामस्य पुनर्निर्माणेऽस्माकं दलं नियुक्तम् । वयं ग्रामवासिभिः सह मिलित्वा ग्रामस्य गृहाणि, विद्यालयं, मार्ग, चिकित्सालयं च निर्मितवन्तः । आगामिनि साधारणतन्त्रदिवसे सर्वेषां लोकार्पणं विधास्यति मुख्यमन्त्री । २००१ ईसवीयसंवत्सरस्य जनवरीमासे २६ दिनाङ्कः । स्वाधीनभारते गणपर्व साधारणतन्त्रदिवसः । मुख्यमन्त्रिणं प्रतिपालयन्तो वयं वार्ता प्राप्तवन्तः - प्रबलभूकम्पेन गुर्जरप्रदेशो विध्वस्तः । त्रिरङ्गामुडापयन्तो वन्दे मातरं गायन्तः प्रभातपरिक्रमां कुर्वन्तः शिशवः शिक्षकाश्च प्रस्तरसौधतले समाधिं गताः । द्वितलत्रितलप्रासादानां ध्वंसावशेषेषु अगणिता जना मृताः । सम्पूर्ण विश्वं स्तब्धम् । कार्यक्रमाः स्थगिताः । दूरभाष्यसम्पर्कः छिन्नः । गृहं प्राप्य दृष्टवान्, प्रासादतले मे परिवारो विध्वस्तप्रायः । व्रणितां पत्नी कनिष्ठं पुत्रं चाऽरक्षद् ईश्वरः । अन्ये सर्वे मृताः । तत्रोद्धारकार्ये पुनर्नियुक्ताऽस्माकं चमूः । ततोऽवकाशं स्वीकृत्य समेषामौर्द्धदेहिकसंस्कारार्थं प्रसिद्धमाघमेलायां प्रयागे आगतस्य मम पत्नी क्व गतेति न जाने। कुलस्यैकमात्रदीपकस्य कनिष्ठपुत्रस्य मुखं पश्यन् दुःखशतं विस्मर्तुं प्रारब्धवान् ।। अग्रे निरुत्सवः पूजावकाशः । आतङ्कवादिभिः अमेरिकादेशस्य कृते उपायनीकृतो विश्ववाणिज्यसंस्थाया अत्युच्चप्रासादस्य ध्वंसावशेषः । आतङ्कवादिनां विरुद्धममेरिकाराष्ट्रपतिना युद्धं घोषितम् । आतङ्कवादिभिः प्रेरिता “आन्थ्राक्सजीवाणवः" । तत्र हतो मे कुलस्य शेषदीपकः । अहो विधातः ! किं सर्वं दुःखं मम मुण्डोपरि पातनीयमासीत् ? बन्धुं परिजनं पुत्रं कन्यां हारितवतो मे जीवनं नरकायितम् । त्यागपत्रं प्रदाय कुत्राऽपि गमनीयमिति मितिरभवत् । एकदा एवमेव रेलयानमारूढः । सर्वशेष-रेलनिस्थाने अवतीर्य दृष्टवान्, सर्वधर्मसमन्वयकस्य देवदेवजगन्नाथस्य पुरीनगरे अवतीर्णोऽस्मि । अज्ञाततिथेः विमलज्योत्स्नातले सागरवेलाबालुकासु उपविश्य "किं करिष्यामि" इति दरिद्रपञ्चाक्षरमन्त्रं जपन्नासम् । अयि देव ! जगन्नाथ ! पतितपावन ! किं मे अपराधः? इदानीं यावदहं त्वत्तो बहुदूरे पितृपुत्रजननीजायानां प्रणयपाशेन निगडित आसम्, किन्तु अधुना कोऽस्ति मम? रक्षको भक्षकस्त्वमेकस्त्वमेकः । एवं विचिन्त्य कदा अहं निद्रितो न जाने । समयः प्रातःप्राय: । दूरे उच्चारिता काचित् सुमधुरस्वरलहरी निद्रां चोरयति । अहं मम कर्णयोः विश्वासं न कृतवान् । इदानीं यावदहं सागरवेलायां सुप्तः सन् शृणोमि कस्यचन मधुरं गायनं - "प्रातः १०२

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120