Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 108
________________ मार्गद्वयम् सा. मैत्रीयशाश्रीः एको नृप आसीत् । स भृशं मृगयाव्यसन आसीत् । एकदा स एकाक्येव मृगयार्थं निर्गतो हरिणं चैकं मारयित्वा प्रतिनिवर्तमान आसीत् । किन्तु गहनत्वादरण्यस्य मार्ग विस्मृतवान् स इतस्ततो विलोकयन्नटश्चाऽऽसीत् । तावता तेनैको गोपालो वेणुं वादयन् दृष्टः । स तमाहूयाऽपृच्छत् – 'भ्रातः ! एष पन्थाः क्व गच्छति?' गोपालोऽवदत् - 'अत्र द्विधा मार्गोऽस्ति, एकः स्वर्गं प्रति गच्छति द्वितीयश्च नरकं प्रति । भवान् केन मार्गेण गन्तुमिच्छति ?' नृपेण कथितम् – 'भोः ! सत्यं ब्रूहि, अहं नगरं गन्तुमिच्छामि' । गोपालः कथितवान् – 'अहं सत्यमेव वच्मि । जीवानां हिंसा हि नरकस्य पन्थाः, जीवानां दया रक्षणं च स्वर्गस्य मार्गोऽस्ति - इत्येवं गुरुभिः कथितमस्माकम् । भवतः कः पन्था अनुमतः ?' एतदाकर्ण्य नृपश्चिन्तामग्नो जातः । गोपवचनानि तस्य हृदयं पर्यवर्तयत् । स हरिणशरीरं तत्रैव त्यक्त्वा गोपालस्य चोपकारं मत्वा कथितवान् – “मित्र ! इतः परमहं मृगयां सर्वथा त्यक्ष्यामि हिंसां च नैव करिष्ये । भ्रातः ! मां भवतो गुरोः समीपे नयतु येनाऽहमपि ततो धर्मं श्रुत्वा यथाशक्ति स्वीकुर्यामाचरेयं च' । गोपालस्तं गुरुपायें नीतवान्, ततश्च धर्मश्रवणं कृत्वा यथाशक्यं व्रतग्रहणं कृतवान् । ततोऽहिंसामयं धर्ममाजीवनं पालयित्वा प्रान्ते च समाधिना मृत्वा सद्गतिमाश्रयत् । [सारः गोपालस्य वचनैर्यदि नृपस्य जीवनपरिवर्तनं जायेत तर्हि सर्वदा गुरुवचनानि शृण्वतामस्माकं जीवनपरिवर्तनमवश्यं भवेदेव खलु ! अतो वयं गुरुवचनैर्धर्मं ज्ञात्वा यथावत् प्रपाल्य चाऽहिंसामयं निर्मलं च जीवनं जीवेम मनुजजन्मसाफल्यं च प्राप्नुयाम ।] १००

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120