Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 91
________________ कथा क्षमा मुनिधर्मकीर्तिविजयः दगडुः शकीलश्चेति नाम्ना द्वे मित्रे आस्ताम् । एकस्यां प्रतोल्यामेव तौ वसतः स्म । दगडोः पिता मृत आसीत् । ततो विधवाया मातुर्दगडुरेक एव पुत्र आसीत् । शकीलस्य पिता जीवति स्म किन्तु व्यसनी क्रोधी क्लेशी चाऽऽसीत् । कदाचित्तु स मासपर्यन्तं गृहे एव नाऽऽगच्छति स्म, यदाऽऽगच्छेत्तदा मद्यं पीत्वैवाऽऽगच्छेत् । दगडोर्माता 'काशीमा' तथा शकीलस्य जननी 'रहीमा' - इति द्वे अपि जनन्यौ समदुःखिन्यौ आस्ताम् । ततो द्वे अपि ते मीलित्वा कार्यं सुखदुःखयोर्वार्तालापं च कुरुतः स्म । ८३

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120