Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
'मा मैवं वदतु स्वामी, नाऽहमलीकभाषिणी विप्रतारिका वा; किन्तु, भवतो शीर्षे पलितरूपेणाऽयं धर्मदूतः समागतोऽस्ति इत्यत्र मम तात्पर्यमासीत्' ।
-
एतच्छ्रुत्वा राजा सहसा चिन्तासमुद्रनिमग्नो नेत्रे निमील्य चिन्तयति स्म - 'हा ! कथमहमेतावन्तं कालं विषयकर्दमसेवनासक्तो धर्माचरणाद् वञ्चित: ? इदानीं वार्धक्ये समागते किं वाऽहं करिष्ये ?' तदाऽविज्ञातनृपमनोगततया राज्ञी पुनरपि परिहासमुखेन कथितवती – 'स्वामिन् ! वार्धक्येन भवान् यद्येतावल्लज्जते तर्हि समस्तेऽपि नगरे पटहवादनपूर्वकं घोषयिष्यामो यद् - यो हि नृपतिं वृद्धं कथयिष्यति तस्य महान् दण्डो भवितेति !' । 'अहो ! अविवेकिनां युक्तमेतद्' इति राज्ञोक्ते तया गदितं – 'यद्येवं तर्हि किमर्थमियती चिन्ता ? कथं चैतावानुद्वेगः ?'
-
राज्ञोक्तं – ‘चिन्ताकारणमिदं यन्मयाऽद्यपूर्वपुरुषाचीर्णो मार्गो लङ्घितोऽस्ति । मम वंशे सञ्जाता राजानोऽदृष्टपलिता एव तपोवनं गच्छन्ति स्म । अहं पुनरेतावन्तं कालं भोगासक्त: सन् राज्ये एव स्थित: । अतोऽधुनाऽपि पद्मकेसरं राज्येऽभिषिच्याऽऽरण्यको मुनिरहं भवितेत्यत्र नाऽस्ति सन्देहः' ।
एतच्छ्रुत्वा राज्ञी वज्राहतेव तत्क्षणं मूर्च्छिताऽभवत्, शीतोपचारैश्च चैतन्यं प्राप्य किञ्चिदाश्वस्ता सती राजानं कथितवती - 'नाथ ! किमिति भवानेवं कथयति ? मया तु परिहासेन कथितं भवान् सत्यतया किमिति गृह्णाति ?' राज्ञोक्तं - 'हास्येनाऽपि शोभनं यद्वचनं कथ्यते तद् ग्रहीतव्यमेव । तत एष मया भवत्यै मे निश्चयः कथितः । अहं श्व एव तापसव्रतं ग्रहीष्यामि' |
'स्वामिन् ! यदि भवतोऽयमेव निश्चयस्तदाऽहमपि भवता सहैव तापसव्रतमङ्गीकरिष्ये तपश्चाऽऽचरिष्ये' इति देव्योक्ते नृपेण कथितं – 'युक्तमिदं देवि ! भवत्या विवेकस्य' ।
-
ततः पुत्रं राज्येऽभिषिच्य राजा तया सह तपोवनमागत्य तापसव्रतमङ्गीकृतवान् । देव्यपि पत्या सह यथोचितं व्रतं परिपालयति यावत्, तावत् तस्याः पूर्वसंभूतो गर्भो वर्धितु प्रवृत्त: । एतद् दृष्ट्वा राज्ञा पृष्टं – 'किमिदं भद्रे ! ?' तयोक्तं- 'पूर्वमेव मम गर्भ आसीत्, किन्तु तदा व्रतान्तरायभयेन मया भवते नैव कथितम्' । 'भवत्याऽयुक्तं कृतं तत् । भवतु, किन्त्वधुनाऽपि कुलपतेरेतत् निवेदनीयमन्यथाऽऽवयोरवर्णवादो भविता' इति राज्ञा कथिते ताभ्यां मम सर्वमपि निवेदितम् । मयाऽपि - 'किं क्रियतामधुना ? यज्जातं तज्जातमेव' इति कथयित्वा तापसीजनस्य तत्पालनाय निर्देशः कृतः ।
तापसीभिर्यथोचितं पाल्यमाना साऽन्यदा सुरकुमारसदृशं तेजस्विनं पुत्रं पसूतवती । प्रसवानन्तरं चाऽनुचिताहारात् तस्या दारुणो रोगः सञ्जातः । तापसीवर्गेण तस्या औषधादिका बह्वी चिकित्सा कृता तथाऽपि रोगस्तु वृद्धिङ्गत एवाऽधिकतया । एतेन सर्वेऽपि वयमत्र चिन्ताकुला जाताः स्म यत् – कथमेष लघुर्बालो रक्षितव्य इति ।
-
अथ च भवान् समागतोऽस्ति, भवत्पत्नी चाऽपि नवप्रसूताऽस्ति - इत्यतो वयमिमं बालं भवते दातुमिच्छामो येनाऽपगतचिन्ता भवेम' |
८७

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120