Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 101
________________ मारीहस्ते समागतमुत सैव मारी सञ्जाता ?' ततः शरीरचिन्तामिषेण स कुमारीसमीपे गतो यावत् पश्यति तावत् प्रसुप्तायास्तस्या वामकरः कटकरहितोऽस्ति, दक्षिणोरौ च व्रणपट्टिका बद्धति दृष्टम् । एतेन वज्राहत इव राजाऽतीव दुःखसन्तप्तः स चिन्तितवान् – 'यदि मृगाङ्कादशनिपातः सम्भवेत् तदा एतस्याः सकाशादेतत् प्रपतेत् । अथवा किं चिन्तया? अयमेवाऽस्ति दृढप्रत्ययः । हा हा ! अनया पापिन्या मे वंशः कलङ्कितः । तदेतस्याः शीघ्रमेव निग्रहं करोमि यावदेषा सर्वेषां नगरीजनानां विनाशं न कुर्यात्' । ततः प्रतिनिवर्त्य सिंहासने । उपविष्टोऽसौ मित्रानन्दं पृष्टवान् – 'कि केवलं साहसेनैव भवता मृतकं रक्षितमुताहो काचिन्मन्त्रसिद्धिरप्यस्ति ?' तेनोक्तं - 'मम कुलक्रमागतो मन्त्रोऽप्यस्ती'ति । तदा राज्ञा लोकमपसार्य तस्य कथितं - 'भद्र ! एषा मे दुहितैव मारीरूपाऽस्तीत्यत्र नास्ति सन्देहः । ततश्च भवतो यदि काऽपि शक्तिरस्ति तदाऽस्या निग्रहं करोतु' । अनेनोक्तं – 'प्रभो ! पश्यामि तावत् किमेषा मम साध्यऽसाध्या वेति । ततो यथोचितं करोमि' । 'भवत्वेव'मिति राज्ञोक्ते एष कुमारीपार्वे गतः । साऽपि तदा प्रबुद्धा तं दृष्ट्वा विचारयति स्म – 'किमेष मत्पार्श्वमागतः ? अथवा तातेन प्रेषितः स्यात् । कथमन्यथाऽत्र पुरुषागमः सम्भवेत् ?' ततस्तयाऽस्मै आसनं प्रदत्तम् । तत्रोपविष्टः स कथयति स्म - 'कुमारि ! केनचित्कार्येणाऽऽगतोऽस्म्यहम्' । 'किं कार्यमस्ति भोः !?' इति तया पृष्टे तेनोक्तं – 'कुमारि ! अहं स एव येन भवद्धस्तात् कटकं गृहीतम् । अत्र परमार्थस्त्वेष यन्मया राज्ञः समक्षं भवत्यां मारीविषयमतिमहत् कलङ्कमारोपितमस्ति । राजा च भवती मेऽर्पयिष्यति । यदि भवत्यास्तदनुमतं तदा भवती गृहीत्वा नयेयं, यदि च नाऽनुमतं तहि कथयतु सद्भावम् । अहं भवत्याः कलङ्कमपनेष्यामि । मम पुनर्जलाञ्जलिं ददातु' । एतदाकर्ण्य कुमारी चिन्ताब्धिनिमग्ना जाता - 'अहो ! कथमेतेनैवं कृतम् ? मम कृते तु व्याघ्रतटीन्यायः - उभयतः पाशा रज्जुश्च समागते । कथं वा निस्तरणीयमेतत् ? अथवा, यदपि भवेत् तद् भवतु, महीमण्डलमण्डनमिमं महाभागमवश्यं रक्षामि' इत्येवमालोच्य तयोक्तं - 'महानुभाव ! भवतो जीवितमेव मेऽभिमतम् । अतो यत्कर्तव्यं समादिशतु' । एतेन सन्तुष्टः स कथितवान् – 'यदा राजा भवतीं मेऽर्पयेत् तदा मया "हुं फट्" इति भणिते सर्षपक्षेपे च कृते हुङ्कारमात्रं करोतु' । एवं तां समवबोध्य स राज्ञः पार्वे आगतः, 'मम मन्त्रसाध्यैवैषा मारी'ति कथयित्वा 'किन्तु, मह्यमेकमतिशीघ्रवाहनं ददातु येन रात्रावेव देशसीमातो बहिर्नयेयम् । यतो यदि देशमध्य एव स्थितायास्तस्याः कथमपि सूर्योदयो भवेत् तदा त्वेषा मारी तथैवाऽवस्थिता भवेदत्र' । ततो राज्ञा तद्वचोऽङ्गीकृत्य मारीरूपां राजकन्यां देशाद् बहिर्नेतुमादिष्टं तदर्थं च स्वीया प्राणप्रिया वडवाऽपि तस्य समर्पिता । सन्ध्याकाले च जाते राज्ञा स्वकन्या केशैर्गहीत्वा हारं कर्वती मित्रानन्दस्य समक्षमानीता । तेनाऽपि यव-सर्षपिदिक्षेपपूर्वकं "हुं फट्" इति मन्त्रं च भणता स्ववशे कृत्य वडवापृष्ठे आरोपिता स्वयं च तामग्रतः कृत्वा पट्ट्यामेव चलितः । राजाऽपि नगरद्वारपर्यन्तं तावनुव्रजत् द्वाराण्युद्घाटितवान्, बहिनिर्गतयोश्च ददातु । ९३

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120