Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 99
________________ कुमारस्य भवत्या यो लेखः प्रेषित आसीत् तस्योत्तरं गृहीत्वा तन्मित्रमागतमस्ति' इति तेनोक्ते सा सत्वरं राजभवनं प्राप्ता कुमारी च सहर्षं कथितवती – 'पुत्रि ! भवत्या वल्लभस्य वृत्तं कथयितुं समागताऽस्मि' इति । ततो यथोक्तं सर्वं कथितं तस्यै । कुमार्या चिन्तितं – 'मच्चित्ते तावन्न कोऽपि पुरुषो वल्लभतया प्रतिष्ठितोऽस्ति । एवं स्थिते किमिदं स्यात् ? ततो जानामि किमत्र तत्त्व'मिति तयोक्तं – 'अद्य तं पुरुषं मत्पावें आनय' । ततः साऽपि कुट्टनी हृष्टचित्ता गृहमागता मित्रानन्दं च कथितवती - 'पुत्र ! त्वत्कार्य सिद्धम् । अद्य त्वया राजभवनं गन्तव्यम्' । तेनाऽपि तदङ्गीकृतम् । ततो रात्रौ स तया सह राजमन्दिरं गन्तं प्रवृत्तः । तदा तयोक्तं - 'पुत्र ! हर्षवशान्मया मुख्यवार्ता तु नैव कथिता तव । राजमन्दिरं प्राकारसप्तकस्याऽन्तःस्थितं, सप्तस्वपि च प्राकारेषु रक्षणार्थं सैन्यस्थानकान्यपि सन्ति । एवं स्थिते त्वं कथं कुमारीसमीपे गमिष्यसि ?' तेनोक्तं - 'अम्ब ! कुमार्या भवनं कुत्राऽस्तीति कथयतु तावत् । पश्चात् सर्वमपि करिष्ये' । तयाऽपि तद् दर्शितम् । ततस्तेन सा गृहं प्रति प्रेषिता । साऽपि च प्रच्छन्नं स्थित्वा यावत् 'किमसौ करोती'ति पश्यति तावत् स विद्युत्क्षिप्तकरणेन प्रथम प्राकारमुल्लङ्घ्य द्वितीयप्राकारं प्राप्तः । ततः सन्तुष्टा सा 'नूनं सपराक्रम एष सत्पुरुषः कार्यसिद्धि प्राप्नुयादेवे'ति चिन्तयन्ती गृहं गता । असावपि क्षणार्धेनैव सप्ताऽपि प्राकारानुल्लङ्घ्य गवाक्षमार्गेण राजकुमारीभवनं प्राप्तः । साऽपि च वीरचर्ययाऽऽगतं तं दृष्ट्वा 'किमसौ करोती'ति विलोकयितुं कपटसुप्ता । असौ च तां सुप्तां दृष्ट्वा तस्या वामकरात् राजनामाङ्कितं कटकं लघुहस्ततया गृहीतवान् दक्षिणोरौ च स्वीयच्छुरिकया लाञ्छनमेकं कृतवान् । ततः पूर्वोक्तेनैव क्रमेण ततो निर्गत्य देवकुलं गत्वा सुप्तवान् । इतश्च सा राजकन्या चिन्तितवती – 'अहो दक्षत्वमस्य ! यो मम कटकं गृहीत्वा लाञ्छयित्वा च मामेवं त्वरया निर्गतः । मयैतत् सुष्ठ न कृतं यदयं सम्भाषितोऽपि न' । एवं च चिन्तनाकुला सा विनिद्रैव रात्रिमतिवाह्य प्रभाते सुप्ता ।। तदा चाऽयं निद्रातः समुत्थाय सत्वरं राजकुलं प्राप्तो द्वारदेशे च स्थित्वा चीत्कर्तुमारब्धो यथा - 'अहो मुषितोऽहं लुण्टितोऽहं, किमत्र कोऽप्यस्ति यो मे न्यायं दास्यति ?' एतच्छ्रुत्वा राज्ञा द्वारपाल आहूतः पृष्टश्च – 'किमस्त्यत्र भोः!?' द्वारपालेनोक्तं - 'देव ! कोऽपि सुपुरुषः केनाऽपि पराभूत इव भवदर्शनमाकाङ्क्षति' । राज्ञोक्तं – 'प्रवेशय तमन्तः' । 'यथाऽऽज्ञापयति देव!' इत्युक्त्वा तेन मित्रानन्दो राजसमीपे नीतः । असावपि सविनयं राजानं प्रणम्य राज्ञाऽऽदिष्ट आसने उपविष्टः । 'किं जात'मिति पृष्टश्च नृपेण स मृतकरक्षण-दीनारपञ्चशतप्राप्त्यादिकं वृत्तं कथयित्वा विज्ञप्तवान् - 'देव ! अद्य चतुर्थो दिनो जातोऽस्ति, तेन श्रेष्ठिनाऽद्याऽपि यावत् मे शिष्टं धनं नैव प्रदत्तम् । अत्राऽर्थे च नगरद्वारस्थो द्वारपाल: साक्ष्यस्ति । भवान् तं प्रष्टुमर्हति' । राज्ञा सोऽप्याहूय पृष्टः । तेनाऽपि 'सत्यमेत'दित्युक्ते कुपितो राजा 'तं दुराचारं बद्ध्वाऽत्राऽऽनयते'ति यावदादिष्टवान् तावत् तज्ज्ञात्वा स श्रेष्ठी धनं गृहीत्वा शीघ्रमेव तत्राऽऽगतवान् विज्ञप्तवांश्च राजानं - 'देव ! तदा खल्वस्य मार्गयतोऽपि यन्मया धनं न प्रदत्तं ९१

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120