Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 22
________________ गौतमगणधरवद्यस्तथाऽभवत्-शिष्यलब्धिसंपन्नः । श्रीकुङ्कणं प्रधानं, प्रबोध्य किल दीक्षयाञ्चक्रे ॥ ४० ॥ युग्मम् ॥ श्रीदेवसूरिनामा, जातस्तत्पट्टपूर्वदिग्भानुः । 'रूपश्री 'रिति बिरुदं नृपदत्तं यो दधौ रुचिरम् ॥ ४१ ॥ नाम्ना श्रीसर्वदेव-सूरिः प्राभासयत्तदीयपदम् । शिष्ययशोभद्रमुरखा-नकृताष्टौ सूरिपदभाजः ॥ ४२ ॥ तत्पट्टक मलकैरव - विकासकृद्रविविधू विरेजाते । सूरियशोभद्राख्यः, तथाऽपरो नेमिचन्द्र इति ॥ ४३ ॥ तत्पट्टकमलमिहिरः, श्रीमुनिचन्द्राभिधोऽभवत्सूरिः । सौवीरमात्रपायी, प्रत्याचख्यौ स षट् विकृतीः ॥४४॥ हरिभद्रसूरिरचिताः, कृतयोऽनेकान्तजयपताकाद्याः । तार्किकवर्येण येन, विहिताः सुखबोधवृत्तियुताः ॥ ४५ ॥ सूरिरजितदेवाख्यः, तत्पट्टं शोभयाञ्चकार भृशम् । तद्गुरुबन्धुर्वादी, जितकुमुदो देवसूरिरभूत् ॥४६॥ तत्पदशोभाकरणो, जातः श्रीविजयसिंहसूरीशः । सोमप्रभमणिरत्नौ, सूरीशौ तत्पदेऽभवताम् ॥ ४७ ॥ मणिरत्नसूरिपट्टं, द्योतितवान्, सूरिराट् जगच्चन्द्रः । बुधदेवभद्रसङ्गात्, साधितवान् यः क्रियोद्वारम् ॥ ४८ ॥ द्वात्रिंशद्दिग्वसनाचार्यैर्वादं प्रतन्वता जयता । येनाऽऽपि भूपदत्तं, ह्याघाटे 'हीरला ' बिरुदम् ॥४९॥ आजीवनमाचाम्ला-भिग्रहतः प्राप्तवान् तपाबिरुदम् । तत आरभ्य गणोऽयं, विख्यातोऽभूत् तपाभिधया ॥ ५० ॥ (त्रिभिर्विशेषकम् ) सूरिर्देवेन्द्राह्वो, जज्ञे तत्पट्टभून्महाप्राज्ञः । श्राद्धदिनकृत्य - कर्मग्रन्थमुखा यश्चकार कृतीः ॥५१॥ तत्पट्टं दिनकरवद् व्यभासयद्धर्मघोषसूरीशः । पृथ्वीधरो यदुक्त्याऽभूषयदूर्वी जिनौकोभिः ॥५२॥ यश्च समर्थः सूरिर्योगिवरं दुर्जयं महामायम् । जित्वाऽवन्तीपुर्यां, श्रमणान् निरुपद्रवीचक्रे ॥५३॥ (युग्मम्) श्रीसोमप्रभसूरिस्तत्पट्टाकाशभास्करो जज्ञे । यतिजीतकल्पसूत्र - प्रमुखान् जग्रन्थ यो ग्रन्थान् ॥ ५४ ॥ १४

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120