Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पुनरपि च जीवनचक्रस्य दारुणां दुःसहां च यातनामधिषहेत ।
अथाऽऽसीत् गोविन्दः, यस्तस्यैव प्रतिच्छायीभूतः सन् तस्यैव च पथि व्रजन् तत्तुल्यानेव प्रयत्नान् करोति स्म । तावुभौ परस्परं साधनाया अभ्यासस्य च प्रयोजनं विना विरलतयैव भाषेते स्म । कदाचित् तौ सहैव ग्रामेषु स्वकृते गुरूणां च कृते भिक्षाग्रहणार्थं गच्छतः स्म ।
अन्यदा तादृश एव भिक्षाटनकाले सिद्धार्थो गोविन्दं पृष्टवान् – "भोः ! किमावां काञ्चित् प्रगति प्राप्तौ वा ? आवाभ्यां किं पूर्वनिर्धारितं ध्येयं प्राप्तं वा ?"
गोविन्दोऽवदत्"आवाभ्यां सुबहु शिक्षितमस्ति इतोऽपि च शिक्षमाणौ स्वः । भवांस्तु महान् श्रमणो भविष्यति, सिद्धार्थ ! । भवता प्रत्येकं पाठो विद्या च शीघ्रतयाऽधिगताऽस्ति । वृद्धश्रमणा बहुशो भवन्तं प्रशंसन्ति । कदाचिद् भवानपि पवित्रो महापुरुषो भविष्यति'" ।
सिद्धार्थेनोक्तं "भोः ! भवदुक्तं मे तथ्यं न प्रतिभाति । श्रमणानां पार्श्वे यदहमेतावत्पर्यन्तं शिक्षितवानस्मि तत्सर्वं त्वहं मदिरागृहे वारवधूगृहे द्यूतगृहे वाऽऽगतानां धूर्तानां शौण्डानां च मध्ये स्थित्वाऽपि सरलतया शीघ्रतया चाऽशिक्षिष्ये" ।
-
गोविन्द उक्तवान् – ‘“सिद्धार्थ उपहसति ननु ! ध्यानं प्राणायामाः क्षुत्तृषोः पीडायाश्चाऽसंवेदनशीलता - इत्येतत् सर्वं कथं वा भवान् तेषां दुरात्मनां पाश्र्वात् अशिक्षिष्यत ?"
सिद्धार्थः स्वगतोक्तिं कुर्वाण इवाऽतीव मृदुतयोक्तवान् – “किमस्ति ध्यानं ? किं देहशून्यताऽस्ति ? किं वाऽस्ति प्राणधारणं ? किमस्ति वा तपःकरणम् ? सर्वमप्येतत् स्वस्मात् पलायनमस्ति, स्वल्पकालमपक्रमणमस्त्येतद् आत्मवेदनातः, तथाऽस्तीत्वरिकमुपशमनमेतत् स्वस्य पीडायाः” ।
“एकः शकटवाहकोऽपि मदस्थानं गत्वाऽऽसवं नालिकेरजलं च स्वल्पकालीनमौषधमिव पीत्वा स्वस्मात् पलायते । तत: स न स्वचेतनामनुभवति, न जीवनस्य दुःखेन दुःखीभवति । केवलं स स्वल्पकालमुपशमनमनुभवति । मद्यचषकाणामुपरिष्टात् गाढनिद्रामग्नः सः, सिद्धार्थ -गोविन्दाभ्यां महापरिश्रमेण दीर्घकालीनयोगसाधनया तपश्चरणेन च साधितया देहमुक्तावस्थया या शून्यत्वस्थितिः प्राप्ता, तां, सुतरामनुभवति' ।
गोविन्द उदतरत् - " वयस्य ! भवानेवं वक्तुमर्हति तथाऽपि भवान् सुतरां जानाति यन्नाऽस्ति भवान् शकटवाहको न वा कश्चित् श्रमणो मद्यपोऽस्ति । मद्यपस्तु जीवनात् पलायनमवश्यं प्राप्नोति, सोऽवश्यं स्वल्पकालीनां विश्रान्तिं निर्वृतिं चाऽप्यनुभवति, किन्तु यदा तस्य भ्रान्तिनिवर्तेत यदा च स भानं प्राप्नुयात् तदा सर्वमपि यथावत् साक्षात्करोति । न तस्य विवेको वर्धते न च बोधः, नाऽपि च स कञ्चिदुष्कर्षं विकासं वा साधयति" ।
सिद्धार्थः सस्मितमुक्तवान् - " नाऽहं जानामि भोः ! यदहमपि कदाऽपि मद्यपो भविष्यामि न वा । तथाऽपि सिद्धार्थोऽहं साधनया ध्यानेन च केवलं स्वल्पकालीनां विश्रान्तिमनुभवामि । ततश्चाऽहं प्रज्ञातो
६०

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120