Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 70
________________ तदा च गोविन्दो मार्गे एव स्तिमित इवाऽवस्थितः, स्वहस्तौ चोन्नीय कथितवान् – "सिद्धार्थ ! ईदृशैर्वचनैर्मा स्वमित्रस्य पीडामापादयतु । सत्यं, भवच्छब्दा मां क्लेशयन्ति । चिन्तयतु भोः ! यद्, यदि त्वदुक्तप्रकारेण शिक्षणं विद्या वा नाऽभविष्यत् तदाऽस्माकं पवित्रवेदानां, ब्राह्मणानां पूज्यतायाः श्रमणानां वा शुचितायाः को वाऽर्थोऽभविष्यत् ? यद्येवं तर्हि सिद्धार्थ ! सर्वेषां वस्तूनां का गतिरभविष्यत्, अस्मिञ्जगति किं वा पवित्रमस्थास्यत् किं च वाऽनय॑मलौकिकं चाऽभविष्यत् ?" अथो गोविन्दः स्वगतमेव मन्दध्वनिनोपनिषदां सूक्तमेकमुच्चरितवान् "कश्चिद् वीरः प्रत्यागात्मानमैक्षत । आवृतचक्षुरमृतत्वमिच्छन् ॥" सिद्धार्थस्तूष्णीक आसीत् । गोविन्दवचनेषु स चिराय चिन्तितवान् । “आम्", स नतमस्तक: स्थित्वा विचारयन्नाऽऽसीत्, “ननु यदप्यस्मान् पवित्रं भासते ततः किं वाऽवशिष्यते ? किं रक्ष्यते किं चोदध्रियते ?" स मस्तकमधुनोत् । अथ च द्वयोरपि यूनोः श्रमणैः सह योगाभ्यासं कुर्वतोवर्षत्रयं व्यतीतम् । तावताऽन्यदा नैकस्रोतोभ्यस्ताभ्यां लोकप्रवादरूपेण किंवदन्तीरूपेण च समाचार एकः श्रुतः । एकः कश्चन महात्मा प्रादुर्भूत आसीत् जगत्यां, यन्नाम गौतम इत्यासीत्, यश्च भगवान् बुद्धः इत्याख्ययया प्रथितयशा आसीत् । स जागतिकानां दुःखानां क्लेशानां च जयं प्राप्तवान् आसीत् पुनर्जन्मनश्चक्रं च निरुद्धवानासीत् । शिष्यगणेन परिवृतो लोकांश्चोपदिशन् स समस्ते देशे पर्यटितवान् आसीत् । तस्य पार्श्वे न काश्चित् सम्पदः, न किञ्चनाऽगारं न च स्त्र्यपि विद्यन्ते स्म । केवलं... काषायिकं वस्त्रमेकं धृतवानपि उन्नतभ्रूरयं पवित्रपुरुषः पर्यटति स्म, बहवो विद्वांसो ब्राह्मणा राजानो राजपुत्राश्च तं प्रणमन्ति स्म तदन्तेवासिनश्च भवन्ति स्म । एष समाचारः एष लोकप्रवाद एषा च कथाऽत्र तत्र सर्वत्र जनानां कर्णोपकर्णगता प्रसूता च । ब्राह्मणा नगरेषु प्रसारयन्ति स्म श्रमणाश्च वनेषु । एवं च गौतमबुद्धस्य नामाऽनवरततया तयोमित्रयोः श्रवणगोचरतां गतं, कदाचिन्निन्दारूपेण कदाचिच्च प्रशंसारूपेण, क्वचित् सम्यक्तया क्वचिच्च विपरीततया। यथा हि, महामार्या पीडिते देशे यदि कदाचित जनप्रवाह उत्तिष्ठते यद - अस्ति कश्चन प्राज्ञो महापुरुषो यस्य वचनानि श्वसनं चाऽपि पीडितान् जनान् सान्त्वयितुं रोगमुक्ताश्च कर्तुमलमिति, यदा चैषा वार्ता देशे सर्वत्र प्रसरेत् जनाश्च तामेव चर्चयेयुस्तदा बहवस्तां विश्वसन्ति बहवश्च शङ्कन्ते, बहवस्तु सपद्येव सर्वाणि कार्याणि विमुच्य तं महापुरुषमन्वेषयन्तस्तत्पावें गच्छन्ति - अस्मद्धितकार्ययमेवेति कृत्वा । अथैतत्प्रकारेणैव गौतमबुद्धस्याऽपि शाक्यकुलोत्पन्नस्य समाचारः प्रवादश्च समस्ते देशे प्रसृतः । "स परमज्ञानं धारयति स्म" - श्रद्धालव उक्तवन्तः, "तस्य पूर्वजन्मनां स्मरणमासीत्, तेन निर्वाणं प्राप्तमत इतः परं स भवचक्रे नैव पर्यटिष्यति, नाम-रूपयोर्दुःखमयस्रोतस्सु च नैव मज्जिष्यति" ।

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120