Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ यत्किञ्चिदपि कुतोऽपि कदाऽपि क्वचिदपि ममाऽनुकूलम् । भूतभाविभवतां ननु तेषां त्वमसि जननि ! शुभमूलम् ॥ यमराजः (सप्रणयम्) साधु कपालिन् ! साधु । प्रशस्या ते मातृनिष्ठा । परन्तु कृतघ्नैर्निचिता भवज्जीवनयात्राऽवलोक्यते । प्रतिपदं तदाचरितं शाठ्यं, प्रवञ्चनं, विश्वासघातः, गोपितापाकरणं, शतमिताहितं च । तेभ्यः कथं मुक्तिरवाप्ता ? I कपाली प्रभो ! सर्वज्ञः सन्नपि कथं पृच्छति भवान् ? तथाऽपि स्वानुभवं वक्ष्यामि । कृतघ्नान् न जानामि, न परिचिनोमीति न । ते सर्वेऽपि मां निकषा मन्निर्मित एव भवने नक्तन्दिवं सुखं विलसन्ति । परन्तु ममोपजीविनस्ते वराकाः किं कुर्युः ? यमराजः नाऽवगतो भवदभिप्रायः ! कपाली प्रभो ! यथा काष्ठे जन्म गृहीतवन्तः कीटाः काष्ठमेव स्वाश्रयभूतं कृन्तन्ति, भक्षयन्ति तथैव मदाश्रयाः कृतघ्नाश्चाऽपि मामेव भक्षितवन्तः । यथा काष्ठकीटा अनन्यगतिका विवशाश्च तथा कर्तुं तथैवेमे कृतघ्ना अपि । काऽपरा युक्तिर्देया मया ? यमराज: अहो नु सहिष्णुत्वं ते ? कपालिन् ! चकितोऽहम् । कपाल देव ! तत एव कस्याञ्चिद् गलज्जलिकायां लिखितं मया - देहि यस्मै त्रिवेणीकवेर्जीवितम् तं सहिष्णुं विधेहीति सम्प्रार्थये इति । यमराजः कपालिन् ! देवा अपि प्रतीकारपरायणाः श्रूयन्ते । कार्तघ्न्यं तेऽपि न सहन्ते । यतो हि कृतघ्नता दहति हृदयं, लघयति च जिजीविषाम् । त्वया किमाचरितम् ? कपाली युक्तमाह देव: । परन्तु यथा कवचमण्डितं योद्धारं शत्रुनाराचा न व्यद्धुं शक्नुवन्ति तथैव हरिभक्तिकवचमण्डितं मां कृतघ्नता न व्यद्धुं शशाक । किञ्च कृतघ्नानहं तत्कृतघ्नताप्रकाशनक्षणे एव अकालमृतान् अनुभूय, तेभ्यस्तिलाञ्जलिं दत्तवान् । मम जीवनपञ्जिकायां तन्नामवन्ति पृष्ठान्येव न वर्तन्ते । तेषां कोऽप्यनुभव एव न वर्तते । अनुभव एव दुःखस्य भवत्येकमात्रं कारणमिति सुष्ठु जानन्ति देवपादा अपि । I यमराज: (सविमर्शम्) कपालिन् ! गूढाभिप्रायं ते वचनम् । कपाली प्रभो ! नाऽत्र काचिद् गूढता । शास्त्राणामुपदेशामृतमिदम् । अपूरणीया आकाङ्क्षैव दुःखस्य मूलम् । यदि तादृशीमाकाङ्क्षामेव न कोऽप्यनुभवेत् तर्हि कथं नु दुःखमुत्पद्येत ? तन्निहतैव सर्वसुखमूलम् । देव ! यथा मयाऽपूरणीयाऽऽकाङ्क्षा नाऽनुभूता तथैव कृतघ्नानामस्तित्वमपि । अत एव न मे तज्जन्यं दुःखम् । यमराजः साधु कपालिन् साधु ! तद् भवान् स्वर्गं न कामयते ? कपाली प्रभो ! विरञ्जिरचितं स्वर्गं न कामये । तेन स्वर्गेण न मे तृप्तिः । ८०

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120